बिहार-राज्ये मुख्यमन्त्री-सम्राट-चौधरी-इत्यस्य नेतृत्वे मन्त्रिमण्डलस्य विस्तारः अभवत्।
नितीश-कुमारस्य पुत्रेण सह द्वात्रिंशत् मन्त्रिणः च नूतनमन्त्रिमण्डले शपथ-वचनं स्वीकृतवन्तः ।
बिहार-राज्ये मुख्यमन्त्री-सम्राट-चौधरी-इत्यस्य नेतृत्वे मन्त्रिमण्डलस्य विस्तारः अभवत्। पटना-नगरस्य गान्धी-मैदान इत्यत्र आयोजिते भव्य-समारोहे राज्यपालः सेवानिवृत्तः लेफ्टिनेण्ट्-जनरल्-सैयद्-अता-हस्त्रैन् द्वात्रिंशत् नवनियुक्तेभ्यः मन्त्रिभ्यः पदस्य गोपनीयतायाश्च शपथं प्रदत्तवान्। मन्त्रिमण्डले अधुना भारतीय जनता पार्टीति दलस्य पञ्चदश, जनता दल-यूनाइटेड-दलस्य त्रयोदश, (रामविलास्) लोक-जनशक्ति-दलस्य द्वौ, हिन्दुस्तानी-आवाम्-मोर्चा तथा राष्ट्रिय-लोक-मोर्चा-दलयोः प्रत्येकतः एकः मन्त्री अस्ति। मन्त्रिणः प्रथमं पञ्च-समूहेषु, ततः षट्-समूहेषु च शपथं स्वीकृतवन्तः। शपथग्रहण-समारोहे सम्मिलितेषु प्रमुखेषु मन्त्रिषु जनता-दल-यूनाइटेड-दलस्य अध्यक्षस्य नितीश कुमारस्य पुत्रः निशान्त-कुमारः अपि आसीत्। उल्लेखनीयम् अस्ति यत् नितिश कुमारः गत-मासे राज्यसभां प्रति गन्तुं मुख्यमन्त्रीपदात् त्यागपत्रं समर्पितवान्।
बिहार-राज्ये मुख्यमन्त्री-सम्राट-चौधरी-इत्यस्य नेतृत्वे मन्त्रिमण्डलस्य विस्तारः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
