विकसितभारत-जी-राम-योजनायाः हिमाचलप्रदेशे प्रवर्तनम्
हिमाचलप्रदेशे अन्ते केन्द्रसर्वकारस्य नवीना योजना ‘विकसितभारत-गारण्टी-रोजगार-आजीविका-मिशन् (ग्रामीणम्)’ अर्थात् वी.बी.जी. राम (VB-G RAM) इति प्रवर्तिता। केन्द्रसर्वकारेण मनरेगा-योजनायाः स्थाने एषा नवीना योजना प्रवर्तिता अस्ति। पूर्वं हिमाचलसर्वकारः अस्य परिवर्तनस्य विरोधं कृतवान् आसीत्, दिसम्बरमासे प्रस्तावितां विशेषग्रामसभां च स्थगितवान् आसीत्। परन्तु इदानीं राज्यसर्वकारः अस्याः नूतनयोजनायाः कार्यान्वयनाय सम्मतिं दत्तवान्। केन्द्रसर्वकारेण अपि अस्य कृते प्रथमः कित्तः (Instalment) प्रदत्तः।
हिमाचलप्रदेशे अन्ततः केन्द्रसर्वकारस्य नवीना योजना ‘विकसितभारत-गारण्टी-रोजगार-आजीविका-अभियानम् (ग्रामीणम्)’ अर्थात् ‘वी.बी.जी. राम’ इति प्रवर्तिता। केन्द्रसर्वकारेण इयं योजना ‘मनरेगा’ इत्यस्य स्थाने आनीता। हिमाचलसर्वकारेण पूर्वम् अस्य परिवर्तनस्य विरुद्धं पक्षः स्वीकृतः आसीत्, दिसम्बरमासे आयोजिता विशेषग्रामसभा अपि न कृता। किन्तु अधुना राज्यसर्वकारः नूतनयोजनां प्रवर्त्तयितुं सहमतः जातः। केन्द्रसर्वकारेण अपि अस्य कृते प्रथमः अंशः विमुक्तः।
पूर्वं केन्द्रसर्वकारेण नूतनयोजनायाः आरम्भपर्यन्तं ‘मनरेगा’ अन्तर्गतमेव कार्यदिवसाः दत्ताः आसन्। अधुना ते सर्वे नूतनयोजनायां परिवर्तिताः (Port) भविष्यन्ति। यद्यपि पूर्वम् एतादृशम् आकलनम् आसीत् यत् मनरेगा-समाप्त्या नूतनयोजनायाः कारणात् हिमाचलप्रदेशस्य प्रतिवर्षं सप्तशतकोटि (७०० Cr) रूप्यकाणां हानिः भवितुं शक्नोति। वर्तमानकाले हिमाचलः प्रतिवर्षं प्रायः चतुर्दशशतकोटि (१४०० Cr) रूप्यकाणां कार्याणि करोति, यानि अधुना अर्धीभूतानि भविष्यन्ति।
योजनायाः स्वरूपं आव्हानानि च
पञ्चायतीराज-ग्रामीणविकासविभागेन अस्मिन् विषये एकः प्रतिवेदनः राज्यसर्वकाराय समर्पितः। केन्द्रेण मनरेगा-स्थाने या नवीना योजना ‘वी.बी.जी. राम’ इति लागू कृता, तस्यां रोजगारदिवसाः शततः (१००) पञ्चविंशत्यधिकशतं (१२५) यावत् वर्धिताः। तथापि अनेके नूतनाः नियमाः हिमाचलस्य हिते न प्रतीयन्ते स्म। येषां राज्याणां जनसङ्ख्या न्यूना अस्ति, तेषां कृते स्वाभाविकतया हानिः वर्तते।नूतनयोजनायां जिलापरिषत्सु नियुक्तानां अधिकारिणां कर्मचारिणां च कृते दीयमानं धनं समाप्तं कृतम्। एतासां सर्वासाम आशङ्कानां सत्यपि नवीना योजना कार्यान्विता क्रियते, यतः अन्यविकल्पस्य अभावे राज्यस्य महती हानिः भवितुं शक्यते स्म।
विकसितभारत-जी-राम-योजनायाः हिमाचलप्रदेशे प्रवर्तनम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
