प्रधानमन्त्री नरेन्द्र मोदी वर्यः डॉ. आर. बालासुब्रमण्यमं डॉ. जोरम अनियां च नीति-आयोगस्य पूर्णकालिकसदस्यरूपेण नियुक्तौ सत्यां वर्धापनं दत्तवान्।
सामाजिकमाध्यमे एकस्मिन् सन्देशे प्रधानमन्त्रिणा उक्तं यत् तयोः समृद्धः अनुभवः विभिन्नविषयेषु च गभीरा अवबोधः नीतिनिर्माणं सुदृढं करिष्यति। सः विश्वासं प्रकटितवान् यत् तयोः योगदानं सर्वक्षेत्रेषु नवाचारं विकासं च गतिमानं करिष्यति। श्री मोदी तयोः नूतनकार्यकालस्य अतिशय-उपयोगितायै प्रभावशालितायै च शुभाशयाः प्रकटितवान्। मन्त्रिमण्डल-सचिवालयेन राजपत्र-सूचनामाध्यमेन डॉ. बालासुब्रमण्यमस्य डॉ. अनियायाः च नियुक्त्याः विषये सूचना प्रदत्ता।
