हिमाचल-पञ्चायत-निर्वाचनम् त्रिषु चरणेषु भविष्यति मतदानम्, आचारसंहिता प्रवृत्ता
हिमसंस्कृतवार्ता:- शिमला।
हिमाचलप्रदेशे नगरनिकाय-निर्वाचनात् परं पञ्चायतीराज- संस्थानां निर्वाचनस्य शङ्खनादः जातः। राज्य-निर्वाचन-आयोगेन मङ्गलवासरे निर्वाचन- समयसारिणी प्रसारिता। अनेन सहैव प्रदेशे आचारसंहिता प्रवृत्ता अभवत्। हिमाचले त्रिषु चरणेषु- २६, २८ तथा ३० मई दिनाङ्केषु जिला परिषद, पञ्चायतसमिति-सदस्य, पञ्चायतप्रधान- उपप्रधान- वार्डसदस्यानां च कृते मतदानं भविष्यति। जनपद-निर्वाचन-अधिकारिणः (DC) स्व- स्व- जनपदेषु मतदान-तिथीनां निर्धारणाय अधिकृताः कृताः। प्रदेशस्य ३,७५४ पञ्चायतेषु कुल ५०,७९,०४८ मतदातार: स्व-मताधिकारस्य प्रयोगं करिष्यन्ति। एतेषु २५,६७,७७० पुरुषाः, २५,११,२४९ महिलाः, २९ अन्ये मतदातार: सम्मिलिताः सन्ति। विशेषो विषयः अयं यत् ५२,३४९ युनः प्रथमतया मतदानं करिष्यन्ति।
निर्वाचनप्रक्रियायै सम्पूर्णे प्रदेशे २१,६७८ मतदानकेन्द्राणि स्थापयिष्यन्ते। एतेषु ४५८७ मीटर् उत्तुङ्गतायां स्थितं सर्वोच्चं मतदानकेन्द्रं लाहौल- स्पीति- जनपदस्य कौमिक-विद्यालये भविष्यति, यत् भौगोलिकदृष्ट्या अतीव कठिनक्षेत्रे स्थितम् अस्ति। जनपदपरिषद्, पञ्चायतसमिति, प्रधान- उपप्रधान- पञ्चायतसदस्यानां च कृते पृथक्- पृथक् वर्णयुतानि मतपत्राणि भविष्यन्ति। एतेषां पदानां कृते आहत्य ६० लक्षं मतपत्राणि निर्मितानि। मतपत्राणां वर्णाः भिन्नाः अतः कृताः येन मतदातृषु कोऽपि भ्रमः न भवेत्। अशिक्षिताः जनाः मतपत्रस्य वर्णं दृष्ट्वा मताधिकारं प्रयोक्तुं शक्ष्यन्ति। ८० वर्षतः अधिकाः वृद्धाः मतदानकेन्द्रेषु एव मतदानं करिष्यन्ति।
राज्य- निर्वाचन- आयुक्तः अनिलखाची महोदयः पत्रकारगोष्ठ्यां निर्वाचन-समयसारिणीं घोषयन् अवदत् यत् निर्वाचनकार्यक्रमस्य अधिसूचना २९ अप्रैल दिनाङ्के भविष्यति। नामाङ्कनपत्राणां प्रस्तुतीकरणं ७, ८, ११ मई दिनाङ्केषु च भविष्यति। १२ मई दिनाङ्के नामाङ्कनपत्राणां सूक्ष्म-परीक्षणं भविष्यति। १४-१५ मई पर्यन्तं प्रत्याशिनः स्वनामानि प्रत्याहर्तुं शक्ष्यन्ति, १५ दिनाङ्के एव निर्वाचनचिह्नानां वितरणं भविष्यति। पञ्चायत- प्रधान- उपप्रधान- सदस्यानां च परिणामः मतदानस्य दिने एव सायङ्काले घोषयिष्यते, यदा तु जनपदपरिषद्-पञ्चायतसमित्योः मतगणना ३१ मई दिनाङ्के विकासखण्ड-मुख्यालये भविष्यति। तस्मिन्नेव दिने परिणामाः आगमिष्यन्ति। तेन उक्तं यत् निर्वाचनानि शान्तिपूर्णतया निष्पक्षतया च कारयितुं आयोगेन सर्वेभ्यः जनपदेभ्यः निर्देशाः दत्ताः। संवेदनशील- अतिसंवेदनशील- केन्द्रेषु विशेष- सुरक्षा- प्रबन्धाः भविष्यन्ति।
अपरतः, आचारसंहितायाः प्रवृत्तौ सत्यां नूतनाः नियुक्तयः, विकासकार्याणि, राजनैतिककार्यक्रमाः च न भविष्यन्ति। मन्त्रिणः विधायकाश्च अधुना राजकीय-यन्त्राणां प्रयोगं कर्तुं न शक्ष्यन्ति।
हिमाचल-पञ्चायत-निर्वाचनम् त्रिषु चरणेषु भविष्यति मतदानम्, आचारसंहिता प्रवृत्ता
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
