वित्तमन्त्रिणा उडुपीनगरे रत्न-आभूषणसंस्थानस्य उद्घाटनं कृतम्
वित्तमन्त्रिणी निर्मला सीतारामन कर्णाटकस्य उडुपीनगरे भारतीय-रत्न-आभूषणसंस्थानस्य (IIGI) नूतनपरिसरस्य उद्घाटनं अकरोत्। अस्मिन् अवसरे वित्तमन्त्रिण्या उक्तं यत् एतत् नूतनं प्रशिक्षणसंस्थानं युवकानां युवा-उद्यमिनां च कृते व्यावसायिकप्रशिक्षणं प्रदास्यति। संस्थाने आभूषणनिर्माणं, सङ्गणक-प्रारूपं (Computer Designing), रुपान्तरण परीक्षणं, परिष्करणं (Finishing) च कर्तुं एकचत्वारिंशत् (41) यन्त्राणि उत्पादनसुविधाः च उपलभ्यन्ते। अस्मिन् अवसरे ‘प्रयोगशाला-हीरक-प्रौद्योगिकी’ क्षेत्रे विशेषप्रमाणपत्रपाठ्यक्रमाय भारतीय-रत्न-आभूषणसंस्थानस्य तथा आई.आई.टी. मद्रास इत्यनयोः मध्ये सामञ्जस्य-पत्रे (MoU) हस्ताक्षरं अपि अभवत्।
वित्तमन्त्रिणा उडुपीनगरे रत्न-आभूषणसंस्थानस्य उद्घाटनं कृतम्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
