विनोबाभावेविश्वविद्यालयस्य स्नातकोत्तरसंस्कृतविभागे भारतीयसेनया विशेषव्याख्यानमायोजितम्।
हजारीबागनगरे विनोबाभावेविश्वविद्यालयस्य कुलपति: प्रो॰ चन्द्रभूषणशर्मणः निर्देशानुसारं राञ्चीस्थितसेनानियोजनकार्यालयस्तस्य विश्वविद्यालयस्य स्नातकोत्तरसंस्कृतविभागे एकं विशेषव्याख्यानमायोजयत्। अस्य व्याख्यानस्याध्यक्षतां पूर्वविभागाध्यक्ष: डॉ नकुलपाण्डेयोऽकरोत्। अस्य कार्यक्रमस्योद्घाटनं मुख्यवक्तृसेनानीमनीषकुमारशर्मा मुख्यगुल्मपतिशर्मारामपालो मुख्यगुल्मपतिशर्मामनोजकुमारः स्नातकोत्तरसंस्कृतविभागस्य पूर्वाध्यक्षः डॉ ॰नकुलपाण्डेयः डॉ॰अखिलेश्वरपाठकश्च मिलित्वा दीपप्रज्वालनेनाकुर्वन्। मुख्यवक्तासेनानीशर्मामनीषकुमारो विद्यार्थिनां सम्बोधनेऽकथयद्यत् प्रत्येकं भारतीयो भारतीयसेनायां गर्वमनुभवति यतोहि भारतीयसेना सर्वदा राष्ट्ररक्षणाय समर्पिता वर्तते। यूयमपि भारतीयसेनायां धर्मगुरुपदे नियुक्ता भूत्वा देशसेवां कुर्वन्तो गौरवमनुभवितुं शक्नुथेति तेनागदितम्। ये संस्कृतविद्यार्थिनः शास्त्रीपरीक्षमाचार्यपरीक्षां वात्यतरन्नथवा ये कर्मकाण्डविषयेण सह स्नातकपदवीमत्यतरन्नथवा ये कर्मकाण्डविषयं विना स्नातकपदवीमुत्तीर्यैकवर्षीयकर्मकाण्डपत्रोपाधिमलभन्त ते सर्वे सेनायां धर्मगुरुपदे नियुक्ता भवितुमर्हन्ति। सेनानीशर्मामनीषकुमारो धर्मगुरुभ्यः प्रदेयानामाकर्षकवेतनमानानामन्यासामनुकूलतानाञ्च विषये विद्यार्थिभ्यो विस्तारेणाज्ञापयत्तथा च धर्मगुरुपदे नियुक्त्यै तानप्रेरयद्यतोहि सम्प्रति धर्मगुरूणां बहूनि पदानि रिक्तानि विद्यन्ते। स स्मार्टबोर्डितिनामकप्रज्ञाफलके विद्यार्थिभ्यो भारतीयसेनाया अधिकारेषु कर्तव्येषु च विस्तृतं विवरणमपि प्रास्तौत्। अस्मिन् व्याख्याने विद्यार्थिनोऽपि तेन दत्तां सूचनां प्राप्यातीवोत्साहिता अभवन्। मुख्यगुल्मपतिशर्मारामपाल आवेदनप्रक्रियाया नियोजनप्रक्रियायाश्च विषये विद्यार्थिनोऽबोधयत्। मुख्यगुल्मपतिशर्मामनोजकुमारः सेनानीशर्मामनीषकुमारस्य प्रस्तुतौ तान्त्रिकं साहाय्यमकरोत्। व्याख्यानस्याध्यक्षडो॰पाण्डेयनकुलो विषयप्रवेशमतीथीनां स्वागतञ्चाकरोत्। शिक्षिकासहायिकाकुमारीमनीषा मञ्चसञ्चालनमकरोत्तथा च डो॰पाठकाखिलेश्वरो धन्यवादज्ञापनमकरोत्। अस्मिन् कार्यक्रमे स्नातकोत्तरप्रथमसत्रस्य चतुर्थसत्रस्य च विद्यार्थिभिः सह सन्तकोलम्बामहाविद्यालयस्य संस्कृतविभागस्य छात्रा अपि भागमगृह्णन्। ज्ञातव्यं यत् स्नातकोत्तरसंस्कृतविभागे सेनाया अयं प्रथमः कार्यक्रम आसीद्यश्च विद्यार्थिभ्योऽतीव ज्ञानवर्धकोऽभवत्॥
