“आगामिदशकेषु भारतस्य तकनीकी-क्षमता एव देशस्य शक्तिं निर्धाययिष्यति” – डॉ. जितेन्द्रसिंहः
नवदेहली/लॉस एंजेलिस:। विज्ञान-प्रौद्योगिकी-मन्त्री डॉ. जितेन्द्रसिंहः उक्तवान् यत् आगामिषु दशकेषु भारतस्य या तकनीकी-क्षमता वर्तते, सा एव राष्ट्रस्य सामर्थ्यं निश्चेष्यति। सः अमेरिकादेशस्य ‘लॉस एंजेलिस’ नगरे आयोजिते ‘पैन-आईआईटी एलुमनाई’ (Pan-IIT Alumni) सम्मेलने आभासी-माध्यमेन (Virtual) सम्बोधनकाले एतद् प्रतिपादितवान्।अस्मिन् अवसरे सः शिक्षा-क्षेत्रस्य, उद्योगस्य तथा सर्वकारस्य च मध्ये गम्भीर-सहयोगस्य आवश्यकतायाम् बलं दत्तवान्। सः भारतीय-प्रवासि-समुदायम्, विशेषतः आईआईटी-संस्थानस्य पुरातन-छात्रान्, भारतस्य तथा वैश्विक-नवाचारस्य (Innovation) मध्ये एकाम् अतीव महत्त्वपूर्णां सेतु-शृङ्खलां वर्णितवान्।
तेन अधिकं स्पष्टीकृतं यत् निवेश-मार्गदर्शन-संस्थागतसहयोग-नीतिगतभागिदारीणां माध्यमेन एतेषां योगदानं देशस्य विकासं निरन्तरं सुदृढं करोति। अस्मिन् सम्मेलने विश्वस्य विभिन्नेभ्यः भागेभ्यः तकनीकी-विशेषज्ञाः, उदयिनः साहसिकाः (Entrepreneurs), शोधकर्तारः तथा च निवेशकाः भागं गृहीतवन्तः।
“आगामिदशकेषु भारतस्य तकनीकी-क्षमता एव देशस्य शक्तिं निर्धाययिष्यति” – डॉ. जितेन्द्रसिंहः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
