उत्तरप्रदेश- संस्कृत- संस्थानस्य आवासीय- दशदिवसीयः पौरोहित्य- प्रशिक्षणकार्यक्रमः सफलतया सम्पूर्णः।
हिमसंस्कृतवार्ता:- लखनऊ
अयं प्रशिक्षणकार्यक्रमः 10 अप्रैलतः 19 अप्रैल 2026 पर्यन्तं सञ्चालितः, यस्मिन् प्रदेशस्य विभिन्नभागेभ्यः आगताः प्रशिक्षार्थिनः वैदिककर्मकाण्डेषु, शुद्धोच्चारणे, धार्मिकविधिषु च गहनाभ्यासं कृतवन्तः।
समापनसत्रं प्रातः 11 वादने आयोजितम् आसीत्, यस्मिन् संस्थानस्य कार्यकारी अध्यक्षः मनीष चौहान: (प्रमुखसचिवः) निदेशकः प्रमेन्द्र कुमार गुप्तः प्रेरणास्त्रोतसी अभवताम्।
कार्यक्रमस्य आरम्भः चेतनशर्मणा संस्थानगीतिका प्रस्तुता। संचालनं लक्ष्मीनारायणोपाध्यायेन कृतम्। करुणेशकुमारत्रिपाठिना मङ्गलाचरणं कृत्वा वातावरणं आध्यात्मिकतया परिपूर्णम् अभवत्।
अस्मिन् अवसरे डॉ. अनिल मिश्रः प्रास्ताविकवक्तव्येन स्वानुभवान् प्रकाशितवान् यत् वयं षोडशसंस्कारान्, गीतां संध्यां, दुर्गासप्तशतीं, सूक्तानि, गणेशसहस्रनाम च अपठाम। तेन उक्तं यत् पौरोहित्यं केवलं कर्मकाण्डः न, अपितु समाजं सांस्कृतिकमूल्यैः संयोजयितुं महत्त्वपूर्णं साधनम् अस्ति। शिशिरकुमारमिश्रेण वैदिकमन्त्राणां शुद्धोच्चारणस्य आवश्यकता विशेषतः प्रतिपादिता, यत् प्रत्येकस्य धार्मिकस्य अनुष्ठानस्य आत्मा मन्यते।
कार्यक्रमे प्रशिक्षार्थिभिः “धर्मस्य दृष्टिः” तथा “वयं राष्ट्रे जागृयाम” इति संस्कृतनाटके प्रभावशालिन्या शैल्या प्रस्तुते, येन उपस्थिताः सर्वे जनाः अत्यन्तं प्रभाविताः अभवन्।
स्वागतभाषणं डॉ. लक्ष्मीनारायणओझा कृतवान्। प्रशिक्षकः अच्युतानन्दत्रिपाठी प्रशिक्षार्थिभ्यः पौरोहित्यस्य जीवनोपयोगितां बोधयन् तत् धर्मपरम्परायाः सामाजिकसमरसतायाः च आधारः इति प्रतिपादितवान्। सर्वेक्षकः महेन्द्रः अध्यक्षीयभाषणेन सह धन्यवादज्ञापनम् अकरोत्। कार्यक्रमस्य समापनं कौशाम्बीगुरुकुलस्य छात्रैः प्रस्तुतया शान्तिमन्त्रेण अभवत्, येन सम्पूर्णकार्यक्रमः आध्यात्मिकगौरवं प्राप्तवान्।
पौरोहित्यस्य महत्त्वम्-
पौरोहित्यं भारतीयसंस्कृतेः प्राचीनपरम्परा अस्ति, या व्यक्तिं समाजं च धर्मसंस्कारनैतिकमूल्यैः संयोजयति। एतत् केवलं यज्ञपूजनादिषु सीमितं न, अपितु जन्मनः आरभ्य विवाहपर्यन्तं विविधेषु संस्कारेषु मार्गदर्शनं ददाति। अन्ते सर्वेभ्यः प्रशिक्षार्थिभ्यः प्रमाणपत्राणि वितरितानि। अस्मिन् अवसरे डॉ अनिल गौतमः, शिवमगुप्तः इत्येभिः सहिताः अन्ये कर्मचारिणः, अभिभावकाः च उपस्थिताः आसन्।
उत्तरप्रदेश- संस्कृत- संस्थानस्य आवासीय- दशदिवसीयः पौरोहित्य- प्रशिक्षणकार्यक्रमः सफलतया सम्पूर्णः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
