उत्तरप्रदेशस्य ‘SIR’ अन्तिम-सूच्यां 2.04 कोटि-नामानि निरस्तानि, प्रदेशे १३ प्रतिशतं न्यूनतायाः सह १३.३९ कोटि-मतदातारः अवशिष्टाः
लखनऊ। उत्तरप्रदेशे निर्वाचन-आयोगेन ‘स्पेशल इण्टेंसिव रिवीजन’ (SIR) इत्यस्य अन्तिम-सूची शुक्रवासरे प्रसारिता। उत्तरप्रदेशे मतदातृणां संख्या १३ प्रतिशतं घटित्वा १३.३९ कोटि-परिमिता अभवत्। अन्तिम-सूच्याः २.०४ कोटि-नामानि निष्कासितानि, यदा तु ८४ लक्षं नूतन-नामानि संयोजितानि सन्ति। ‘एसआईआर’ (SIR) प्रक्रियेतः पूर्वम् अक्तूबर २०२५ मासे उत्तरप्रदेशे कुल १५.४४ कोटि-मतदातारः आसन्। प्रथम-प्रारूप-सूच्याः (Draft List) प्रकाशनस्य पश्चात् एषा संख्या १२.५५ कोटि-पर्यन्तं न्यूना अभवत्, यस्मिन् २.८९ कोटि-जनानां नामानि निरस्तानि आसन्। अनन्तरं तस्मिन् प्रारूपात् ८४ लक्षं नामानि पुनः संशोध्य अन्तिम-सूच्यां योजितानि।
उत्तरप्रदेशस्य ‘SIR’ अन्तिम-सूच्यां 2.04 कोटि-नामानि निरस्तानि,
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
