सर्वकारेण फ़ास्क्रैटिक् तथा पोटैशिक्-उर्वरकयोः कृते अस्य वर्षस्य ग्रैष्मिक इति खरिफ-सस्यानां कृते पोषक-आधारित अनुदान-मूल्यानि अनुमोदितानि।
सर्वकारेण फ़ास्क्रैटिक् तथा पोटैशिक-उर्वरकयोः कृते अस्य वर्षस्य ग्रैष्मिक इति खरिफ-सस्यानां कृते पोषक-आधारित अनुदान-मूल्यानि अनुमोदितानि। नवदेहल्यां प्रसारमाध्यमान् सम्बोधयन् सूचना-प्रसारण-मन्त्री अश्विनी वैष्णवः अवदत् यत् अस्यवर्षस्य खरीफ-सत्रस्य कृते प्रायः सार्ध-एकचत्वारिंशत्सहस्र कोटि-रूप्यकाणां तात्कालिक-आयव्ययकेत्यस्य आवश्यकता भविष्यति। सः अवदत् यत्, अनेन कृषकाणां कृते सुलभमूल्येन उर्वरकानां उपलब्धता सुनिश्चितं भविष्यति। प्रहलादपुरातः टोडी-मोड-पर्यन्तं एकचत्वारिंशत् किलोमीटर-सुदीर्घस्य जयपुर-मेट्रो-फेज-द्वितीयस्यापि सर्वकारेण अनुमोदनं कृतम्। श्रीवैष्णवः अवदत् यत् अस्मिन् षड्त्रिंशत् स्थानकानां समावेशः भविष्यति तथा च अस्यां परियोजनायां त्रयोदश सहस्रकोटिरूप्यकाणां व्ययः भविष्यति। एषा परियोजना राजस्थान-मेट्रो-रेल्-कार्पोरेशन्-लिमिटेड् इत्यनेन कार्यान्वितम् भविष्यति, यत् भारतसर्वकारस्य राजस्थानसर्वकारस्य च समान-संयुक्त उद्यमः अस्ति।
सर्वकारेण ग्रैष्मिक इति खरिफ-सस्यानां कृते पोषक-आधारित अनुदान-मूल्यानि अनुमोदितानि
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
