देशस्य सैनिकानां कृते सर्वोत्तम-स्वास्थ्य-सुविधा-प्रदानं सर्वकारस्य सर्वोच्चप्राथमिकता अस्ति – रक्षामंत्री
रक्षामंत्री राजनाथसिंहः अवदत् यत् देशस्य सैनिकानां कृते सर्वोत्तम-स्वास्थ्य-सुविधा-प्रदानं सर्वकारस्य सर्वोच्चप्राथमिकता अस्ति। सः अवदत् यत् प्रत्येकस्मिन् ऋतौ, स्थितौ च सैनिकाः अहर्निशं राष्ट्र सेवारताः भवन्ति, श्रीसिंहः नवदेहल्यां सेना-चिकित्सा-कोर इत्यस्य स्थापना-दिवसम् अभिसंबोधयन् आसीत्। मन्त्रिणा देशस्य अन्येषु भागेषु अपि शोध एवं संप्रेषण चिकित्सालयादि सौकर्याणां विकासाय बलं प्रदत्तम्। सः अवदत् यत् एतादृशाः प्रमुखाः संस्थाः देशस्य प्रत्येकस्मिन् कोणे उपस्थिताः भवेयुः, येन सैनिकानां कृते सर्वत्र उत्तम-चिकित्सा-सौविध्य-प्रदानं भवेत्। सः अग्रे अवदत् यत् सैन्य-नर्सिङ्ङ्ग्-सेवा-परिचारिकाः, याः चिकित्सा-बलानां आधारभूताः सन्ति, ताभ्यः सेवानिवृत्तेः अनन्तरं पूर्वसैनिकस्य उपाधिं न प्रदीयन्ते स्म। मन्त्रिणा उक्तं यत् सर्वकारेण ताभ्यः भूतपूर्वसैनिकस्य उपाधिं प्रदातुं निर्णयः स्वीकृतः ।
देशस्य सैनिकानां कृते सर्वोत्तम-स्वास्थ्य-सुविधा-प्रदानं सर्वकारस्य सर्वोच्चप्राथमिकता अस्ति – रक्षामंत्री ।
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
