आन्ध्रप्रदेशस्य मुख्यमन्त्री एन. चन्द्रबाबू नायडू जलसुरक्षायाः महत्त्वे बलं दत्तवान्
आन्ध्रप्रदेशस्य मुख्यमन्त्री एन. चन्द्रबाबू नायडू राज्यस्य सर्वेषां क्षेत्राणां विकासाय जलसुरक्षायाः महत्त्वे बलं दत्तवान् अस्ति। सिञ्चन-अधिकारिभिः जल-उपयोक्तृ-सङ्घैः च सह दूरभाष-माध्यमेन (Teleconference) चर्चामग्ने मुख्यमन्त्रिणा घोषितं यत् श्वः आरभ्य सम्पूर्णराज्ये ‘जलसुरक्षा-उत्तरदायित्व-कार्यक्रमः’ प्रवर्तयिष्यते। श्वः अनन्तपुर-जनपदस्य ताडिपत्री-क्षेत्रात् चतुर्षु चरणेषु औपचारिकरूपेण आरभ्यमाणा इयं शतदिवसीया ‘जलसुरक्षा-कार्ययोजना’ जलसंरक्षणे संसाधनानां सुरक्षायां च केन्द्रिता भविष्यति। अस्मिन् सिञ्चन-सङ्घानां महती भूमिका भविष्यति। मुख्यमन्त्रिणा उक्तं यत् अस्याः पहलस्य उद्देश्यं राज्यं सुभिक्षं (अनावृष्टि-मुक्तं) करणीयम् अस्ति, येन ग्रीष्म-वर्षाकालेषु पर्याप्तं भूगर्भजलं तिष्ठेत्। श्री चन्द्रबाबू नायडू वैज्ञानिक-योजनायै उपग्रह-चित्राणां ‘हाइड्रोलॉजिकल-मैपिंग’ इत्यस्य च उपयोगे बलं दत्तवान्, सिञ्चन-सङ्घान् ‘जलबजट’ निर्मातुं तथा ‘जल-लेखा-परीक्षणं’ (Water Audit) कर्तुं च निर्देशितवान्।
आन्ध्रप्रदेशस्य मुख्यमन्त्री एन. चन्द्रबाबू नायडू जलसुरक्षायाः महत्त्वे बलं दत्तवान्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
