अमरीका-ईरान-इजरायल युद्धम्-: आईआरजीसी-पक्षतः अमरीकी-विमानस्य पतनस्य पुष्टिः
हिमसंस्कृतवार्ताः। अमरीका-इजरायल-ईरान-देशानां मध्ये प्रचलतः युद्धस्य पञ्चत्रिंशत्तमे (३५) दिवसे ईरान-देशस्य ‘इस्लामिक रिवोल्यूशनरी गार्ड कॉर्प्स’ (आईआरजीसी) इत्यनेन कश्चन विशाला पुष्टिः कृतः। आईआरजीसी-अनुसारं तैः अमरीकादेशस्य उन्नत-लड़ाकू-विमानं एफ-15ई (F-15E) अवनतम् (मारयित्वा पातितम्) अस्ति। अपि च तैः तस्य विमानस्य भग्नखण्डानां चित्राणि अपि प्रसारितानि। आईआरजीसी-पक्षतः उक्तं यत् फारस-खातस्य केश्म-द्वीपस्य दक्षिणभागे एषा घटना घटिता, यत्र ईरानस्य वायु-रक्षा-प्रणाल्या (Air Defense System) अमरीकी-विमानं विध्वस्तं कृतम्। ईरानी-माध्यमानां सूचनानुसारं नष्टविमानस्य चालकः (पायलट) बहिः कूर्दितवान्, यः ईरान-सुरक्षाबलैः ग्रहीतः। तस्नीम-वार्तासंस्थायाः अनुसारं, अमरीकी-सेनया स्वचालकस्य रक्षणार्थं ‘ब्लैक हॉक’ हेलिकॉप्टर्-विमानानां तथा ‘सी-130 हरक्यूलिस’ विमानस्य उपयोगेन अन्वेषण-अभियानं चालितं, परन्तु तत् विफलम् अभवत्। यद्यपि ईरान-देशेन आधिकारिकरूपेण चालकस्य बन्दिभावस्य पुष्टिः न कृता, परन्तु तेन चालकस्य सूचनादात्रे पुरस्कारस्य घोषणा कृता अस्ति। अपरपक्षे, अमरीका-देशेन एतेषां तथ्यानां पुष्टिः मिथ्या इति उक्ताः।
इजरायलस्य प्रत्युत्तरं रणनीतिक-प्रहारश्च
शुक्रवासरे इजरायल-अमरीका-देशाभ्यां मिलित्वा ईरानस्य केश्म-पत्तनस्य (Port) उपरि भीषणः आक्रमणः कृतः। उपग्रहचित्रेषु केश्म-बन्दरगाह्तः धूम्रराशिः उद्गच्छन् दृष्टः। ईरानस्य कृते एतत् पत्तनं रणनीतिक-आर्थिकदृष्ट्या अत्यन्तं महत्त्वपूर्णम् अस्ति, यतः ‘होर्मुज-जलसन्धि’ (Strait of Hormuz) इत्यत्र नियन्त्रणार्थम् अस्य द्वीपस्य महती भूमिका वर्तते। केश्म-फ्री-जोन अधिकारिणाम् अनुसारं ‘बहमन’ वाणिज्यिक-पत्तनस्य मत्स्यपालन-घाटस्य च क्षतिः अभवत्।
ईरानस्य मिसाइल-आक्रमणम्
प्रतिशोधस्वरूपेण ईरानेन इजरायलस्य उच्च-तकनीकी-रक्षाकेन्द्रे सटीकं बैलिस्टिक-मिसाइल-आक्रमणं कृतम्। ईरानस्य लक्ष्यं पेताह टिकवा नगरे स्थिता ‘एयरोसोल’ ड्रोन-निर्माणशाला (Drone Factory) आसीत्। मिसाइल-प्रहारेण निर्माणशालायाः महती क्षतिः अभवत्, येन ड्रोन-निर्माणकार्यं स्थगितम्। एते ड्रोन्-विमानानि इजरायली-सेनायाः (IDF) ‘नेत्रं श्रोत्रं च’ इति मन्यन्ते।
अमरीका-ईरान-इजरायल युद्धम्-: आईआरजीसी-पक्षतः अमरीकी-विमानस्य पतनस्य पुष्टिः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
