आम आदमी पार्टी दलस्य आन्तरिककलहः-: राघव चड्ढा उपनेतृपदात् निष्कासितः
नवदेहली:। आम आदमी पार्टी (आप) इत्यनेन राज्यसभायाः सचिवालयं प्रति पत्रं लिखिला राघव चड्ढा महोदयः उच्चसदने दलस्य उपनेतृपदात् (Deputy Leader) निष्कासितः। तस्य स्थाने अधुना पञ्जाबराज्यस्य राज्यसभासांसदः अशोकमित्तलः एतत् उत्तरदायित्वं निर्वक्ष्यति।
भाषणसमये प्रतिबन्धस्य अनुरोधः-वृत्तानुसारं, दलेन राज्यसभा सचिवालयं प्रति एषः अपि अनुरोधः कृतः यत् राघव चड्ढा महोदयाय दलस्य निश्चितसमयावधौ (Party Quota) भाषणस्य अनुमतिः न प्रदातव्या। राजनैतिकक्षेत्रे एषः निर्णयः अतीव विचित्रः मन्यते, यतः राघव चड्ढा एतावत्पर्यन्तं संसदः मुखरतमः वक्ता आसीत्।
पदच्युतेः सम्भावितकारणानि-
यद्यपि दलेन एतत् ‘सामान्यं संगठनात्मकं परिवर्तनम्’ इति घोषितं, तथापि राजनैतिकविश्लेषकाः अन्यानि कारणानि सूचयन्ति:
दलस्य विचारधारायाः दूरीकरणम्-: राघव चड्ढा विगतकिञ्चित्कालात् दलस्य मुख्यविषयेषु (यथा मद्यनीतिप्रकरणम्) मौनम् आचरति स्म। अरविन्द केजरीवाल-मनीष सिसोदिया महोदययोः कारागारात् मुक्तौ सत्यामपि तेन किमपि सार्वजनिकं अभिनन्दनं न कृतम्।
व्यक्तिगतप्रसिद्धेः आरोपः-: सूत्राणाम् अनुसारं, दलम् अनेन रुष्टम् आसीत् यत् राघवः संसदि दलस्य नीतीनां स्थाने वैयक्तिकप्रतिष्ठावर्धकान् विषयान् (यथा १० रूप्यकाणां चायकं, पितृत्व-अवकाशः च) उत्थापयति स्म।
महत्त्वपूर्णप्रस्तावेषु अनुपस्थितिः: तस्य उपरि आरोपः अस्ति यत् सः विपक्षस्य कतिपयेषु प्रस्तावेषु (यथा निर्वाचनायोगस्य विरुद्धं महाभियोगः) हस्ताक्षरं कर्तुं निराकृतवान्।
राघव चड्ढा महोदयस्य प्रतिक्रिया
पदच्युतेः अनन्तरं राघव चड्ढा महोदेन ‘X’ (ट्विटर) इति माध्यमेन एकं चलच्चित्रं (Video) प्रसारितम्, यस्मिन् तेन संसदि उत्थापितानां जनहितविषयाणां संग्रहः अस्ति। तेन सह ‘नजरबट्टू’ (Evil Eye) इति संकेतं प्रयुज्य सः उक्तवान् यत्-:
“अहं मौनीकृतः अस्मि, परन्तु पराजितः न।”
आम आदमी पार्टी दलस्य आन्तरिककलहः-: राघव चड्ढा उपनेतृपदात् निष्कासितः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
