हिमाचले टोल-टैक्स’ विषये सङ्ग्रामः! हिमाचले वर्धितस्य ‘प्रवेशशुल्कस्य’ विरोधाय पञ्जाब-सीमायाम् मार्ग-अवरोधः
हिमसंस्कृतवार्ता: – बद्दी/नालागढ़म्।
हिमाचले प्रवेश-शुल्कस्य नूतन-दराणां प्रवर्तनेन सह बद्दी-बरोटीवाला-नालागढ़ (BBN) औद्योगिकक्षेत्रे तादृशः कोलाहलः जातः यत् प्रथमदिने एव उद्योगानां चक्राणि स्थगितानि अभवन्, सम्पूर्णं क्षेत्रं च मार्गावरोधेन ग्रस्तं जातम्। सीमासु उत्पन्न-विरोधेन मार्गावरोध: (‘चक्का जाम’) इति कारणेन कतिपयेषु घण्टासु एव उद्योगानां गतिः रुद्धा अभवत्। कर्मचारिणः मार्गेषु निरुद्धा:, उत्पादनं बाधितंआजातं तथा सहस्रशः टन-परिमितं सज्जानि वस्तूनि (Prepared goods) उद्योग-द्वारेषु एव अकलितं (अटक गया) अभवत्।
प्रथमदिने एव कोटि-रूप्यकाणां हानि:
पञ्जीकृता, आपूर्तिकृङ्खला (Supply Chain) च पूर्णतया विच्छिन्ना अभवत्। बुधवासरे प्रातःकाले एव पञ्जाब-सीमायाः भरतगढ़, दभोटा, ढेरोंवाल इति अवरोधकेषु (Barriers) प्रदर्शनकारिणः अधिकारं कृतवन्तः, गमनागमनं च अवरुद्धं कृतवन्तः। ‘बघेरी’ समीपे ‘गरामौड़ा’ अवरोधकः ‘किसान-मोर्चा’ इत्यस्य नियन्त्रणे आसीत्। अनेन सह हरियाणा-पक्षतः अपि बद्दी-बरोटीवाला क्षेत्रेषु मार्ग-अवरोधः कृतः, येन सम्पूर्णं ‘बीबीएन’ क्षेत्रं परितः सम्मर्देन व्याप्तं जातम्।
‘टोल-प्लाजा’ इत्यत्र प्रातः अष्टवादनात् एकादशवादनपर्यन्तं स्थितिः तनावपूर्णा आसीत्। वाहनचालकाः पुरातन-दरेषु एव स्थिराः आसन्, किन्तु टोल-प्रबन्धनं नूतन-दराणां प्रयोगे दृढम् आसीत्। यथा एव नूतन-दराणाम् आधारेण शुल्क-पत्राणि (पर्चियां) निर्गतानि, तथा एव ट्रक-यूनियन-चालकानां च क्रोधः स्फोटितः। बद्दी-नगरस्य मुख्य-प्रवेशद्वारे यूनियन-सदस्याः उपविष्टाः, प्रातः ११ वादनात् सायङ्कालपर्यन्तं ‘चक्का जाम’ निरन्तरं चलति स्म।
