सर्वकारः आश्वासितवान् यत् देशे उर्वरकस्य, तैलस्य (पेट्रोल), ईन्धनस्य (डीजल), द्रवीकृत-पेट्रोलियम-वायुः (LPG) तथा च पी.एन.जी (PNG) इत्येतेषां पर्याप्तः भण्डारः उपलब्धः अस्ति।
पश्चिम-एशिया-क्षेत्रे सङ्घर्षस्य मध्ये सर्वकारेण अद्य आश्वासनं दत्तं यत् देशे उर्वरकाणां पर्याप्तः सञ्चयः वर्तते। नवदिल्ल्यां पश्चिम-एशिया-घटनाचक्रस्य उपरि आयोजिते अन्तः-मन्त्रालयीन-निवेदने (Briefing) उर्वरक-विभागस्य अतिरिक्ता सचिव अपर्णा शर्मा अवदत् यत् देशस्य यूरिया-एककाः (Units) सम्प्रति 80 प्रतिशतं कार्यक्षमतया उत्पादनं कुर्वन्ति। सा उक्तवती यत् खरीफ-ऋतौ देशाय 390 लक्षं (टन) उर्वरकस्य आवश्यकता भवति। सा अपि सूचितवती यत् खाड़ी-देशेभ्यः विहाय अन्येभ्यः स्रोतेभ्यः उर्वरकाणाम् आपूर्तिं वर्धयितुं प्रयासाः क्रियन्ते। सा अवादि यत् अप्रैल-मई मासौ कृषये न्यून-उत्पादनस्य मासौ भवतः, अतः प्रायः एतस्य अवधेः उपयोगः सर्वकारः भण्डारणं वर्धयितुं करोति। एतत् ध्याने निधाय अस्माभिः पूर्वमेव महत्वपूर्णस्य आयातस्य व्यवस्था कृता अस्ति।
पेट्रोलियम-प्राकृतिक-वायु-मन्त्रालयस्य संयुक्ता सचिव सुजाता शर्मा उक्तवती यत् देशे पेट्रोल, डीजल, एल.पी.जी. तथा प्राकृतिक-वायूनां पर्याप्ता उपलब्धता अस्ति। सा अवदत् यत् सर्वकारेण एतस्य सुनिश्चितीकरणाय विविधस्तरेषु अनेके उपायाः कृताः सन्ति, भविष्ये अपि एवं करिष्यति। सा न्यगादीत् यत् देशस्य तैल-परिशोधनशालाः (Refineries) सामान्यरूपेण कार्यं कुर्वन्ति, कच्चे-तैलस्य च पर्याप्तः सञ्चयः अस्ति। संयुक्ता सचिवः अकथयत् यत् देशीय-विपण्यां पर्याप्ताम् उपलब्धतां सुनिश्चितं कर्तुं मूल्य-वृद्धेः रोधनाय च सर्वकारेण पेट्रोल-डीजल-ईन्धनेषु उत्पाद-शुल्के (Excise duty) 10 रूप्यकाणां न्यूनता कृता अस्ति।
सर्वकारः आश्वासितवान् यत् देशे उर्वरकस्य, तैलस्य (पेट्रोल), ईन्धनस्य (डीजल),पर्याप्तः भण्डारः उपलब्धः अस्ति
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
