गीर-सोमनाथस्य लघुबालकेन रचितः इतिहासः
७०० श्लोकान् कण्ठस्थीकृत्य प्राप्ता ‘गीताभूषण’ उपाधिम्
वार्ताहर: – जगदीश डाभी, वेरावलम्, गुजरातम् ।
सोमनाथ जनपदमन्तर्गतस्य उना-प्रान्तस्थ एकः मेधावी स्वप्रतिभया समग्रराज्ये गौरवान्वित कृतवान्। उना-प्रान्तस्य ‘सर्वकारीय श्रीसोनारी प्राथमिक शाला-पीएमन्त्री विद्यालयस्य चतुर्थकक्षाया: छात्र: वेदः लखमणभाई वाझा श्रीमद्भगवद्गीतायाः सर्वेषां ७०० श्लोकानां कण्ठस्थीकरणं कृत्वा कीर्तिमानं स्थापितवान्।
असाधारणकौशलम् :
अल्पवयसि (चतुर्थकक्षायाम्) पूर्णगीतायाः शुद्धोच्चारणपूर्वकं कण्ठस्थीकरणम्। राज्यस्तरीयसम्मानम्ः छात्रस्य विशिष्टोपलब्धिं दृष्टवा युवा गुजरातराज्यस्य माननीय शिक्षामन्त्रिणा तस्मै ‘गीताभूषण’ इति प्रतिष्ठितोपाधिः प्रदत्ता।
पुरस्काराशिः
राज्यस्तरीये कार्यक्रमे वेदाय सम्मानपत्रं, विजयचिह्नं (ट्राफी) तथा च ५१,००० (एक पञ्चाशत् सहस्रं) रूप्यकाणी पुलकारराशिः समर्पित्ता।
विद्यालयस्य हर्षोल्लासः –
वेदस्य अनया महत्या उपलब्ध्या विद्यालयपरिवारे ग्रामे च अतीव उत्साहस्य वातावरणं वर्तते। विद्यालयस्य प्रधानाचार्यः शिक्षकाः च तं प्रति अभिनन्दनं प्रकटितवन्तः । विद्यालयपक्षतः उक्तं यत्- “वेदः न केवलं विद्यालयस्य अपितु सम्पूर्णस्य प्रान्तस्य गौरवम् अस्ति। तस्य एकाग्रता परिश्रमः च अन्येषां छात्राणां कृते प्रेरणास्रोतं भविष्यति।” श्रीमद्भगवद्गीतायाः ज्ञानं सनातनसंस्कृतेः आधारः अस्ति, तथा च वेदेन एतादृशं कार्यं कृत्वा आधुनिकयुगे अपि संस्कृतसंस्काराणां महत्त्वं प्रतिपादितम्।
