प्रशासनेन पेट्रोल-डीजल् इत्येतयोः उपरि आन्तरिकशुल्कं च न्यूनीकृतम् ।
प्रशासनेन डीज़ल-विमानयान- टर्बाइन्-इन्धनयोः (ए. टी. एफ्.) इत्यस्य उपरि निर्यातशुल्कं आरोपितम्, पेट्रोल-डीजल् इत्येतयोः उपरि आन्तरिकशुल्कं च न्यूनीकृतम्, येन पर्याप्त उपलब्धता सुनिश्चितं भवेत् तथा च पश्चिम-एशिया-सङ्कटेन वर्धमानात् वैश्विक तैल-मूल्यात् उपभोक्तृणां रक्षणं भवेत्। पश्चिम एशियायाः वर्तमान-विकासस्य विषये अन्तामन्त्रालयीयं विवरणं सम्बोधयन्, केन्द्रीय-अप्रत्यक्ष-कर-सीमाशुल्क-मण्डलस्य अध्यक्षः विवेक-चतुर्वेदी इत्येषः अवदत् यत्, यदा अन्ताराष्ट्रिय-मूल्यानि तीव्ररूपेण वर्धितानि सन्ति, तदा निर्यातं निरुत्साहनाय अस्य कार्यस्य उद्देश्यं वर्तते, येन शोधकानां कृते विदेशेषु इन्धनं विक्रयणार्थं प्रोत्साहनं कल्प्यते। डीज़ल्-इन्धनयोः निर्यातशुल्कं सार्द्धैकविंशति रूप्यकाणि, ए टी एफ्-इन्धनस्य निर्यातशुल्कं सार्ध ऊनत्रिंशत् रूप्यकाणि च निर्धारितानि। पेट्रोलियम-प्राकृतिकगैस-मन्त्रालयस्य संयुक्तसचिवः सुजाता शर्मा इत्येषा उक्तवती यत्, भारते वर्तमानकाले पर्याप्तानि अशोधितानि तैलानि सन्ति, अग्रिम-मासद्वयोः आपूर्तिः सुरक्षिता अस्ति, तथा च एल्. पि. जि. तथा पी. एन्. जि. इत्येतयोः उपलब्धताऽपि अस्ति । सा अग्रे अवोचत् यत् शोधनागाराणि पूर्णक्षमतया अधिकक्षमतया वा कार्यं कुर्वन्ति, देशीय-एल्. पि. जि. उत्पादनं प्रायः चत्वारिंशत् प्रतिशतं यावत् वर्धितम् अस्ति।
प्रशासनेन पेट्रोल-डीजल् इत्येतयोः उपरि आन्तरिकशुल्कं च न्यूनीकृतम् ।
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
