केन्द्रीय-मन्त्रिमण्डलेन क्षेत्रीय-सम्पर्क-योजना ‘उड़ान’ इत्यस्यै दशवर्षाणां कृते स्वीकृतिः प्रदत्ता ।
हिमसंस्कृतवार्ता: – केन्द्रीय-मन्त्रिमण्डलेन अगामि-दशवर्षाणां कृते चत्वारिंशदधिक-अष्टशतोत्तर अष्टविंशति सहस्र कोटि-रूप्यकाणां व्ययेन ‘संशोधित-उड़ान’ इति क्षेत्रीय-सम्पर्क-योजनायाः विस्तारः स्वीकृतः। नवदेहल्यां मन्त्रिमण्डलस्य उपवेशनान्तरं सूचना-प्रसारण-मन्त्री अश्विनी वैष्णवः अवदत् यत् एतस्याः योजनायाः अन्तर्गतं क्षेत्रीय-सम्पर्क वर्धयितुं विद्यमान-अविमानपत्तनेभ्यः एकशतनूलानि विमानपत्तनानि विकसितानि भविष्यन्ति। एतेन दुर्गम क्षेत्रेषु वायु-सम्पर्कः सुदृढो भविष्यति तथा च द्वितीय तृतीय श्रेण्याः नगरेषु आर्थिक-विकासः, व्यापारः, पर्यटनं च वृद्धि प्राप्स्यन्ति। योजनायाः अस्याः मुख्यम् उद्देश्यं सामान्य नागरिकेभ्यः सुलभं स्वल्पव्यययुक्तं च विमानयानस्य सौविध्यप्रदानम् अस्ति।
केन्द्रीय-मन्त्रिमण्डलेन क्षेत्रीय-सम्पर्क-योजना ‘उड़ान’ इत्यस्यै दशवर्षाणां कृते स्वीकृतिः प्रदत्ता
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
