राष्ट्रपतिः मुर्मु महोदया अयोध्यायाः श्रीरामजन्मभूमिमन्दिरे पूजा-अर्चनं कृतवती तथा च मन्दिरे ‘श्रीरामयन्त्र’ स्थापनासमारोहे भागं गृहीतवती
हिमसंस्कृतवार्ता। राष्ट्रपतिः द्रौपदी मुर्मु उक्तवती यत् देशः सामाजिक-आर्थिक-राजनीतिक-सांस्कृतिकक्षेत्रेषु पुनर्जागरणस्य काले अस्ति, अयोध्यायाः श्रीरामजन्मभूमिमन्दिरं च अस्य प्रतीकम् अस्ति। राष्ट्रपतिमहोदया अयोध्यायां एकां सभां सम्बोधयन्ती आसीत्। सा वर्तमानकाले उत्तरप्रदेशस्य त्रिदिवसीयभ्रमणे अस्ति। श्रीमती मुर्मु श्रीरामजन्मभूमिमन्दिरं गत्वा आरतीं अकरोत् तथा च ‘श्रीरामयन्त्र’ स्थापनासमारोहे भागं गृहीतवती। वैदिकमन्त्राणां घोषेण सह अद्य मन्दिरस्य द्वितीयतले श्रीरामयन्त्रं स्थापितम्। अस्मिन् अवसरे मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् अद्यतनः भारतः न केवलं ‘नव्यभारतं’ अपितु ‘परिवर्तितं भारतम्’ अपि अस्ति। सः सूचितवान् यत् विगतवर्षे प्रायः 158 कोटिः श्रद्धालवः राज्यस्य विभिन्नमन्दिराणां दर्शनं कृतवन्तः।
राष्ट्रपतिः द्रौपदी मुर्मु वृन्दावने स्थितं प्रेममन्दिरं इस्कॉन-मन्दिरं च गत्वा पूजा-अर्चनं कृतवती
ततः परं राष्ट्रपतिः वृन्दावने प्रेममन्दिरं इस्कॉन-मन्दिरं च गत्वा पूजां कृतवती। अत्र राज्यपाल आनन्दीबेन पटेल अपि उपस्थितवती। राष्ट्रपतिमहोदया विश्वासं प्रकटितवती यत् श्रीरामस्य आशीर्वादेन भारतं 2047 पर्यन्तं ‘विकसितराष्ट्रस्य’ लक्ष्यं प्राप्स्यति।आगामिनि दिने सा रामकृष्णमिशनसेवाश्रमे अर्बुद-रोग (Oncology) खण्डस्य उद्घाटनं करिष्यति तथा च उडि़या बाबा आश्रमं, दावानलकुण्डं, नीब करोरी बाबा समाधिं च गमिष्यति।
राष्ट्रपतिः मुर्मु महोदया अयोध्यायाः मन्दिरे ‘श्रीरामयन्त्र’ स्थापनासमारोहे भागं गृहीतवती
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
