भारतस्य खनिजक्षेत्रे ऐतिहासिकसिद्धिः; वित्तवर्षे द्विशतं (200) खनिजखण्डानां सफलं विक्रयणम्
भारतस्य खनिजक्षेत्रेण वित्तवर्षे 2025-26 मध्ये द्विशतं (200) खनिजखण्डानां (Mineral Blocks) सफलया निलाम्या सह एका महत्वपूर्णा उपलब्धिः अर्जिता। इयं एकास्मिन् वर्षे एव एतावतं विक्रयणम् अधुना यावत् सर्वाधिकं वर्तते।कोयला-मन्त्रालयेन उक्तं यत् एषा उपलब्धिः केन्द्र-राज्यसर्वकाराणां मध्ये सुदृढं सहयोगं दर्शयति तथा च भारतस्य निलामी-आधारित-खनिज-आबण्टन-तन्त्रस्य वर्धमानां परिपक्वतां प्रकाशयति।मन्त्रालयेन सूचितं यत् एतेषु द्विशतखण्डेषु 123 खनन-पट्टा-खण्डाः (Mining Lease Blocks) तथा च 77 समग्र-अनुज्ञप्ति-खण्डाः (Composite License Blocks) सन्ति। मन्त्रालयः अकथयत् यत् अस्य वर्षस्य मुख्या उपलब्धिः द्वाविंशतिः (22) महत्त्वपूर्णानां खनिजखण्डानां (Critical Mineral Blocks) सफला निलामी अस्ति, या दीर्घकालिक-संसाधन-सुरक्षायै रणनीतिकं महत्त्वं प्रदर्शयति।
भारतस्य खनिजक्षेत्रे ऐतिहासिकसिद्धिः; वित्तवर्षे द्विशतं (200) खनिजखण्डानां सफलं विक्रयणम्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
