नीति-आयोगेन क्रीडोपकरण-विनिर्माण-क्षेत्रस्य निर्यात-क्षमतायाः उपरि प्रतिवेदनं प्रस्तुतम्
प्रतिवेदनस्य उद्देश्यम् -: नीति-आयोगेन नवदिल्ल्यां भारतस्य क्रीडोपकरण-विनिर्माण-क्षेत्रस्य (Sports Goods Manufacturing) निर्यात-क्षमतां साकारं कर्तुं एकं प्रतिवेदनं (Report) प्रस्तुतम्। अस्य मुख्योद्देश्यं भारतं ‘वैश्विक-क्रीडा-विनिर्माण-केन्द्र’ (Global Sports Manufacturing Hub) इति रूपेण स्थापितुं वर्तते।
निर्यात-प्रतिस्पर्धायाः सुदृढीकरणम् -:
अस्मिन् प्रतिवेदने सूक्ष्म-लघु-मध्यम-उद्यमानां (MSME) लाभं स्वीकर्तुम्, अनुसन्धान-विकासयोः (R&D) प्रोत्साहनं दातुम्, निर्यात-प्रतिस्पर्धां वर्धयितुं च गुणवत्ता-मानकेषु (Quality Standards) ध्यानं केन्द्रितं कृतम् अस्ति।
उपाध्यक्षस्य वक्तव्यम् -:
अस्मिन् अवसरे नीति-आयोगस्य उपाध्यक्षः सुमन बेरी महोदयः देशस्य औद्योगिकक्षेत्रेषु, विशेषतः ‘एमएसएमई’ (MSME) क्षेत्रे प्रतिस्पर्धात्मकतां निर्यात-अभिमुखतां च सुदृढीकर्तुं आवश्यकतायाः उपरि बलं दत्तवान्। सः अवदत् यत् वैश्विकस्तरे एकीकृत-विनिर्माण-पारिस्थितिकीतन्त्रस्य (Manufacturing Ecosystem) निर्माणाय नीतिनिर्धारकाणां, उद्योग-हितधारकाणां, नवप्रवर्तकानां (Innovators) च मध्ये महत्तरः सहयोगः आवश्यकः अस्ति।
मुख्यकार्यकारी-अधिकारिणः विचारः -:
नीति-आयोगस्य मुख्यकार्यकारी-अधिकारिणी (CEO) निधि छिब्बर महोदया अकथयत् यत् यद्यपि भारतस्य पार्श्वे क्रीडोपकरण-विनिर्माणस्य केषुचित् क्षेत्रेषु सुदृढाः क्षमताः सन्ति, तथापि अन्येषु क्षेत्रेषु क्षमतानां विकासः अनिवार्यः अस्ति।
नीति-आयोगेन क्रीडोपकरण-विनिर्माण-क्षेत्रस्य निर्यात-क्षमतायाः उपरि प्रतिवेदनं प्रस्तुतम्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
