पाणिनि वि.वि -ः भौगोलिकं वैषम्यं अस्माकं संस्कृतौ वैषम्यं न दर्शयति– डॉ. सुरेन्द्र थापा
हिमसंस्कृतवार्ताः- डॉ.विजयकुमारः।
गतरविवासरे महाराजा- विक्रमादित्य- शोधपीठं तथा च महर्षिपाणिनिसंस्कृत-वैदिकविश्वविद्यालयस्य ज्योतिषविभागः इत्यनयोः संयुक्ततत्त्वावधाने “भारतीय- ज्योतिष- ज्ञानपरम्परायां वेध- विज्ञान- धर्म- संस्कृति” इति विषयमधिकृत्य त्रिदिवसीया अन्ताराष्ट्रीया शोधसङ्गोष्ठ्याःआयोजनम् जातम्।
अर्धलक्षाधिक-पाण्डुलिपीनां प्रतिलिपयः शोधार्थिभ्यः उपलब्धाः भविष्यन्ति
अस्मिन् अवसरे नेपालदेशस्य उप-मिशनप्रमुखः डॉ. सुरेन्द्रथापा मुख्यातिथिरूपेण उपस्थितः आसीत्। स्वीयोद्बोधने सः अवदत् यत् भौगोलिकसीमाः पृथक् सन्ति, किन्तु अस्माकं संस्कृतिः अस्मान् एकसूत्रेण बध्नाति। सः पाणिनि- व्याकरणस्य उल्लेखं कृत्वा अवदत् यत् नेपालदेशे अपि पाणिनिपरम्परायाः विशेषः प्रभावः अस्ति, सम्भवतः पाणिनिना तस्य ग्रन्थः तत्रैव विरचितः।
सारस्वतातिथिरूपेण विश्वविद्यालयस्य पूर्वकुलगुरुः प्रो. विजयकुमार सी. जी. अवदत् यत् मध्यभारतस्य केरलस्य च ज्योतिष-पद्धत्योः भेदः दृश्यते, किन्तु तयोः मूल-सिद्धान्तेषु कश्चन भेदः नास्ति। तेन ‘तन्त्र-समुच्चय’ इत्यादीनां ग्रन्थानां अध्ययनस्य महत्त्वं प्रतिपादितम्, विश्वविद्यालयस्य उन्नतये शुभाशंसाः च प्रदत्ताः। कार्यपरिषद्सदस्यः श्रीगौरवधाकडः अवदत् यत् विक्रमोत्सवस्य वैश्विकपटलोपरि आयोजनं जायते। सः उक्तवान् सामाजिकविस्ताराय वर्धनाय च संस्कृतशिक्षायाः आवश्यकता वर्तते। सम्मानितातिथिः गीताञ्जलिचौरसिया अवदत् यत् अस्माकं संस्कृतेः संस्कृतभाषायाश्च संवर्धनाय अस्मान् मिलित्वा सामाजिकपटलोपरि कार्यं करणीयम् इति।
विश्वविद्यालये पाण्डुलिपि-केन्द्रं स्थापयिष्यते– प्रो. शिवशङ्कर मिश्रः
कार्यक्रमस्य अध्यक्षतां कुर्वन् माननीयः कुलगुरुः प्रो. शिवशङ्करमिश्रमहोदयः अवदत् यत् डॉ. सुरेन्द्रथापावर्यस्य उपस्थितिः विश्वविद्यालयाय गौरवस्य विषयः अस्ति। सः उक्तवान्- “प्रत्येकवर्णः स्वयमेव मन्त्रस्वरूपोऽस्ति अस्ति, तस्मात् कारणात् शक्तिसाधकः भवति।” विश्वविद्यालयस्य उन्नतिः एव परमं लक्ष्यम् इति प्रतिपाद्य सर्वान् प्रति एकीभूय कार्यं कर्तुम् आह्वानं कृतवान्।
अस्मिन् कार्यक्रमे ज्ञानभारतम् संस्था द्वारा विश्वविद्यालयाय २५ पाण्डुलिपीनां प्रतिलिपयः समर्पिताः। अस्मिन् सन्दर्भे कुलगुरुणा प्रो. शिवशङ्करमिश्रेण उक्तं यत् विश्वविद्यालयः एतासां पाण्डुलिपीनां संरक्षणाय प्रतिबद्धः अस्ति। अतः विश्वविद्यालये मध्यभारतस्य प्रमुखं शोधकेन्द्रं स्थापयिष्यते, यत्र बहवः शोधार्थिनः आगत्य विविधेषु विषयेषु अनुसन्धानं सफलतया करिष्यन्ति। अस्मिन् अवसरे कालभैरवमन्दिरस्य मोहितचतुर्वेदीमहोदयः नीरजचतुर्वेदीमहोदयश्च एतयोः सम्मानं कुलगुरुणा कृतम्। कार्यक्रमे बहवः विद्वांसः, शोधार्थिनः, गणमान्याः च उपस्थिताः आसन्। शोधसङ्गोष्ठ्यां कायथा, नारायणा, डोंगला इत्यादि स्थानात् आगताः ज्योतिष-परम्परासम्बद्धाः जनाः तथा उज्जयिन्याः देवालयसंस्कृतिसम्बद्धाः विद्वांसः अपि सम्मानिताः। अस्मिन् सङ्गोष्ठ्याम् रशिया-नेपालदेशयोः सहितं भारतस्य द्वादशराज्येभ्यः विद्वांसः सहभागिनश्च समागताः। संगोष्ठ्याः ७५ शोधपत्रैः सह सफलतया आयोजनं सम्पन्नम्। कार्यक्रमे विश्वविद्यालयस्य सर्वे अध्यापकाः, छात्राः, शोधछात्राः च उपस्थिताः आसन्। कार्यक्रमस्य सञ्चालनं डॉ.अविनाशमिश्रेण कृतं, धन्यवादज्ञापनं च वेदविभागाध्यक्षेण डॉ. संकल्पमिश्रेण ज्ञापितम्। शोधसङ्गोष्ठ्याः संयोजनं ज्योतिषविभागाध्यक्षेण डॉ. उपेन्द्रभार्गवमहोदयेन कृतम्।
