आईआईटी बॉम्बे (IIT Bombay) संस्थाने ‘ऋतम् २०२६’ इति संस्कृतमहोत्सवः
आईआईटी बॉम्बे (IIT Bombay) इति संस्थायाः सेंटर फॉर संस्कृत लर्निंग (Centre for Sanskrit Learning – CSL) इति विभागेन ८ मार्च २०२६ दिनाङ्के वार्षिकः संस्कृतमहोत्सवः “ऋतम् २०२६” इति सफलतया आयोजितः। अस्मिन् महोत्सवे देशस्य २१ विभिन्ननगरेभ्यः आगताः संस्कृतप्रेमिणः, विद्यार्थिनः, विद्वांसश्च उत्साहेन सहभागित्वं कृतवन्तः।
कार्यक्रमस्य विवरणम्
प्रारम्भः-: कार्यक्रमस्य आरम्भः पञ्जीकरणेन (Registration) इति, किट्-वितरणेन (Kit distribution) इति तथा ग्रन्थ-प्रदर्शन (Stall) इति दर्शनैः अभवत्। ततः दीपप्रज्ज्वलनं, वेदमन्त्रोच्चारणं च कृत्वा औपचारिकं उद्घाटनम् अभवत्।
उपस्थितिः-: अस्मिन् अवसरे सु.श्री. आमी गणात्रा, श्रीमान् नारायणदत्तमिश्रः, प्रो. गणेश रामकृष्णन्, प्रो. नीरज कुम्भकर्णः, प्रो. जयदीप जोशी, डॉ. ए.एस. प्रसाद, श्रीमान् हरिकुमार मेनन्, तथा आईआईटी बॉम्बे (IITB) इति संस्थायाः कुलसचिवः (Registrar) इति डॉ. गणेश भोरकाडे महोदयाः उपस्थिताः आसन्।
विशेषविमोचनम्-: उद्घाटन-सत्रे सेंटर फॉर संस्कृत लर्निंग (CSL) इति संस्थायाः नूतन-लोगो (Logo) इति विमोचनं कृतम्। अस्मिन् एव सत्रे लेखिकायाः आमी गणात्रा महोदयायाः तथा विदुषः श्रीहरि गोकर्णकरस्य ग्रन्थयोः विमोचनम् अभवत्। तदनन्तरं एसपी संस्कृत स्टूडियो (SP Sanskrit Studio) इति संस्थायाः आधिकारिक-टी-शर्ट् (T-shirt) इति वस्त्राणां विमोचनमपि कृतम्।
सांस्कृतिक-सत्राणि
१. प्रश्नोत्तरी-: इण्डियात्रा (INDI YATRA) इति संस्थया संस्कृत-प्रश्नोत्तरी-कार्यक्रमः आयोजितः।
२. प्रस्तुतयः-: पृषा ठक्कर तथा ईशान गोडसे इत्येताभ्यां संस्कृत-भारुड-प्रस्तुतिः कृता। द्वितीयसत्रे नारायणदत्तमिश्रस्य व्याख्यानं तथा नन्दा ठक्कर महोदयया सह बालकानां भगवद्गीता-अन्ताक्षरी कार्यक्रमः जातः।
३. सम्मानः-: कार्यक्रमस्य मध्ये सेंटर फॉर संस्कृत लर्निंग (CSL) इति संस्थायाः छात्राणां तथा कार्यकर्तॄणां (Volunteers) इति सम्मानः कृतः।
४. कला-प्रदर्शनम्:
सायंकाले “धन्यो गृहस्थाश्रमः” इति नाटकं, आसावरी फडके महोदयायाः नृत्यं, ज्ञानकुल-गुरुकुलस्य छात्राणां गायनं तथा श्रीहरि-महोदयस्य सङ्गीत-प्रस्तुतिः अभवत्।
“सहस्रमुखेषु संस्कृतम्” इति आन्दोलनम्
अयं महोत्सवः “सहस्रमुखेषु संस्कृतम्” इति आन्दोलनस्य एकः प्रमुखः उपक्रमः आसीत्।
लक्ष्यम्-: अस्य आरम्भः २०२२ तमे वर्षे अभवत्। अस्य मुख्योद्देशः संस्कृतभाषां केवलं पुस्तकेभ्यः बहिः आनीय लोकजीवनस्य भाषां निर्माणं वर्तते।
व्याप्तिः: अस्य माध्यमेन विविधाः पाठ्यक्रमाः (Courses) इति, सांस्कृतिककार्यक्रमाः च आयोज्यन्ते। वर्तमानकाले १५०० तः अधिकाः जनाः अस्मिन् आन्दोलने संलग्नाः सन्ति, ये संस्कृतस्य पुनरुत्थाने योगदानं ददति।

I m interested… Good project