कविकुलगुरु-कालिदास-संस्कृत-विश्वविद्यालयस्य चतुर्दशः (१४) दीक्षान्त-समारोहः मार्च १८ दिनांके
हिमसंस्कृतवार्ता: – डॉ रेणुका बोकारे, रामटेकम्।
कविकुलगुरु-कालिदास-संस्कृत-विश्वविद्यालयस्य चतुर्दशः (१४) दीक्षान्त-समारोहः बुधवासरे, १८ मार्च २०२६ दिनाङ्के प्रातः ११:०० वादने विश्वविद्यालयस्य परिसरे आयोजितः भविष्यति। अस्य समारोहस्य अध्यक्षता विश्वविद्यालयस्य माननीय-कुलगुरुः डॉ. अतुल-वैद्य-महोदयः करिष्यति। मुख्य-अतिथि-रूपेण भारतस्य प्रख्यातः अभियान्त्रिक-वैज्ञानिकः, पद्मश्री प्रो. गणपति-यादव-महोदयः (पूर्वतन्-कुलगुरुः, आईसीटी मुम्बई) उपस्थितः भविष्यति। अस्मिन् अवसरे कुलसचिवः डॉ. रोशन-अलोने, परीक्षा-नियन्त्रकः डॉ. केशव-मोहरीरः तथा च विद्वत्-परिषदः सदस्याः उपस्थिताः भविष्यन्ति।
उपाधि-प्रदानस्य विवरणम्
अस्मिन् समारोहे २०२४-२५ वर्षे उत्तीर्णेभ्यः छात्रेभ्यः आहत्य १४५६४ उपाधि-प्रमाणपत्राणि वितरिष्यन्ते। येषु मुख्याः सन्ति:
स्नातकोत्तर-उपाधयः (PG): २७२२
स्नातक-उपाधयः (UG): ९४९३
पदविका (Diploma): १८०९
स्नातकोत्तर-पदविका (PG Diploma): ९०
प्रमाणपत्राणि: ८७
मुक्त-दूरस्थ-शिक्षा-केन्द्रद्वारा (CDOE): ३४८ (उपाधयः, पदविकाः च)
अत्र ५४ स्वर्णपदकानि तथा १३ नकद-पुरस्काराः अपि प्रदास्यन्ते। अपि च १४ शोधच्छात्रेभ्यः ‘विद्यावारिधि’ (Ph.D.) उपाधिः प्रदास्यते।
समारोहस्य प्रमुखाणि वैशिष्ट्याणि
१. मानद-विद्यावाचस्पति-उपाधिः (D.Litt.): बहुभाषाविदा, कवयित्री श्रीमती आशा भालचन्द्र पाण्डे महोदया मराठी-संस्कृत-हिन्दी-उर्दू-भाषासु साहित्य-योगदानाय ‘डी.लिट्’ इति मानद-उपाधिना अलङ्करिष्यते।
२. सर्वाधिक-पदक-विजेता: एम.ए. आचार्य (संस्कृत) विषये सर्वाधिक-अङ्क-प्राप्त्यै धनश्री सुभाष लोणकर महोदयायै ११ स्वर्णपदकानि तथा १ नकद-पुरस्कारः प्रदास्यते। सा ‘कुलपति-स्वर्णपदकेन’ अपि सम्मानिता भविष्यति।
३. सर्वोत्तम-अष्टपैलू-विद्यार्थी (All-rounder):- रामटेक-वारङ्गा-रत्नागिरी-परिसराणां छात्रेषु सर्वश्रेष्ठ-बहुआयामी-प्रदर्शनाय अनुज रवी मञ्चावार महोदयाय ‘श्री समर्थ सद्गुरु शङ्कर महाराज रसाळ स्मृति स्वर्णपदकं’ प्रदास्यते।
सर्वोत्तम-प्रबन्ध-पुरस्काराः (Best Thesis Awards)
विभिन्न-सङ्कायेषु (Faculties) सर्वश्रेष्ठ-शोध-प्रबन्धाय स्वर्णपदकानि एतेभ्यः प्रदास्यन्ते:
उन्मेष रत्नाकर बोहटे: – वेदविद्या-सङ्कायः।
भारत पाण्डुरङ्ग मिसाळ: – संस्कृत-संस्कृतेतर-भाषा-सङ्कायः।
सानिका अवधूत बाम: – भारतीय-धर्म-दर्शन-संस्कृति-सङ्कायः।
अतुल भुजङ्गराव ठाकरे: – नशिक्षाशास्त्र-सङ्कायः।
देवलपल्ली अन्वेष: – प्राचीन-भारतीय-विज्ञान-मानविकी-सङ्कायः।
प्रमुख-परीक्षासु प्रथम-स्थान-प्राप्त-छात्राः
छात्रस्य पाठ्यक्रमः
युवराज दीपककुमार भोगांवकर : एम.ए. (व्याकरणम्)
यश ब्रिजेश पाण्डे – एम.ए. (दर्शनम्, संस्कृतम् च)
नैना शेणॉय – एम.ए. (योगशास्त्रम्)
शीतल विजय- मदनकर एम.ए. (ज्योतिर्विज्ञानम्)
ज्ञानेश्वरी सबाजी ससे – बी.ए. (विशारदः)
किरण बळवन्त लाड- बी.ए. (योगशास्त्रम्)
मञ्जुषा बापू यादव – बी.ए. (कीर्तनशास्त्रम्)
हिमांशु सतीश शर्मा- प्राक्शास्त्री (प्रथमः)
वेदांशी वैभव पटेल – शास्त्री (प्रथमा)
माधुरी सुधाकर हारोडे- बी.एड. (शिक्षाशास्त्री – प्रथमा)
विश्वविद्यालयस्य एषः दीक्षान्त-समारोहः संस्कृतस्य आधुनिक-विषयाणां च अद्भुत-सङ्गमः भविष्यति।
अस्मिन् सन्दर्भे आयोजितां पत्रकार-परिषदं विश्वविद्यालयस्य कुलगुरुः डॉ. अतुल-वैद्य-महोदयः सम्बोधितवान्।
अस्मिन् अवसरे कुलसचिवः डॉ. रोशन-अलोने, अधिष्ठाता प्रो. कविता-होले, प्रो. कृष्णकुमार-पाण्डेयः, परीक्षा-नियन्त्रकः डॉ. केशव-मोहरीरः, सहायक-कुलसचिवः श्री सुमित-कठाळे तथा च जनसम्पर्क-अधिकारी डॉ. रेणुका-बोकारे उपस्थिताः आसन्।
