काञ्चीपुरम् (तमिलनाडु) इत्यस्य पावनधरायां मध्यप्रदेशस्य गौरवम्: भुवनमोहनवशिष्ठः राष्ट्रियस्तरे सम्मानितः
हिमसंस्कृतवार्ता:- प्रवेशकुमारशुक्ल, भोपालम्,
सप्तपुरीषु प्रधानायां ज्ञानस्याधिष्ठात्र्यां च नगर्यां काञ्चीपुरम् (तमिलनाडु) इत्यत्र केन्द्रीय- संस्कृत- विश्वविद्यालयेन (नवदेहली) आयोजितस्य ६३ तमस्य अखिलभारतीय- शास्त्रीयस्पर्धोत्सवस्य अवसरे मध्यप्रदेशस्य मेधाविना छात्रेण स्वप्रतिभायाः ध्वजः उत्तोलितः। अस्मिन् भव्यसमायोजने काञ्चीकामकोटिपीठस्य पूज्यपादानां जगद्गुरुशङ्कराचार्याणां सान्निध्ये देशस्य मूर्धन्यविदुषां जिज्ञासूनां च अपूर्वः सङ्गमः दृष्टः।
अस्मिन् राष्ट्रियस्तरीये महोत्सवे भारतस्य प्रायः २३ प्रान्तेभ्यः आगताः लब्धप्रतिष्ठिताः विद्वांसः प्रकाण्डाः छात्रछात्राश्च सम्मिलिताः अभवन्। आयोजनस्य अन्तर्गते शास्त्रार्थ- शलाकापरीक्षा- कण्ठपाठ- भाषणप्रतियोगितासदृशाः कठिनाः बौद्धिकस्पर्धाः आयोजिताः, यासु प्राचीनज्ञानविज्ञानस्य गूढरहस्यानां मन्थनम् अभवत्।
‘भारतीयज्ञानपरम्परा’ इति गौरवपूर्णप्रतियोगितायां केन्द्रीय- संस्कृत- विश्वविद्यालयस्य भोपालपरिसरस्य (मध्यप्रदेशः) प्रतिनिधित्वं कुर्वन् भुवनमोहनवशिष्ठः (आचार्यवेणीप्रसादवशिष्ठस्य सुपुत्रः) स्वकीयां वाग्मितां शास्त्रबोधं च प्रदर्शितवान्। सः ‘भारतीयज्ञानपरम्परा’ इति विषये भाषणस्पर्धायां सम्पूर्णदेशे तृतीयस्थानं सम्प्राप्य न केवलं स्वविश्वविद्यालयस्य कुलपरिवारस्य च मानं वर्धितवान्, अपि तु सम्पूर्णमध्यप्रदेशस्य ज्ञानपरम्परामपि गौरवान्वितां कृतवान्।
काञ्च्याः अस्यां पुण्यभूमौ शङ्कराचार्याणां सान्निध्ये प्राप्ता इयमुपलब्धिः संस्कृतजगते शैक्षणिकक्षेत्रे च अतीव सम्मानदृष्ट्या दृश्यते। तस्य अस्यां सफलतायां विश्वविद्यालयस्य आचार्यवृन्दैः मित्रैश्च हर्षः प्रकटितः, तस्य यशस्वीभविष्याय मङ्गलकामनाश्च कृताः।
काञ्चीपुरम् (तमिलनाडु) इत्यस्य पावनधरायां मध्यप्रदेशस्य गौरवम्: भुवनमोहनवशिष्ठः राष्ट्रियस्तरे सम्मानितः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
