हिमाचलप्रदेशस्य कृषकाणाम् आर्थिक- सुदृढ़ीकरणाय सर्वकारस्य प्रयासः- सुखविंद्र सिंह सुक्खु:
हिमसंस्कृतवार्ता:- शिमला।हिमाचलप्रदेशसर्वकारस्य, राष्ट्रिय डेयरी विकास बोर्ड (NDDB) इत्यस्य च मध्ये मुख्यमन्त्रिणः सुखविंद्र सिंह सुक्खुमहोदयस्य उपस्थितौ त्रयः सामञ्जस्यपत्राः (MoUs) हस्ताक्षारिताः।
त्रीणि प्रमुखानि सहमतिपत्राणि-
१. कांगड़ा दुग्धसङ्घस्य गठनम्- कांगड़ा-मण्डले दुग्धसङ्घस्य निर्माणं तस्य सञ्चालनं च।
२. नूतनसंयन्त्राणां स्थापना- सिरमौरमण्डलस्य नाहन नगरे, सोलनमण्डलस्य नालागढ़े च प्रतिदनं २० सहस्रं लीटर क्षमतायुक्तानां द्वयोः दुग्धप्रसंस्करणयन्त्रयोः स्थापना। हमीरपुरस्य जलाड़ी, ऊनामण्डलस्य झलेड़ाक्षेत्रे दुग्ध- अभिशीतनकेन्द्राणां निर्माणम्।
३. ईआरपी (ERP) सॉफ्टवेयर: दुग्धसङ्घेषु पारदर्शितायै ‘उद्यम संसाधन नियोजन’ सॉफ्टवेयर इत्यस्य प्रयोगः।
प्रमुखविशेषताः उपलब्धयश्च
• ढगवार दुग्धप्रयोजना- कांगड़ामण्डलस्य ढगवारक्षेत्रे २५० कोटिरूप्यकाणां व्ययेन आधुनिकं दुग्धप्रसंस्करणयन्त्रं स्थाप्यते। अस्य क्षमता प्रतिदिनं १.५० लक्षं लीटर परिमिता भविष्यति।
• अङ्कीय-प्रबन्धनम्- सॉफ्टवेयर-माध्यमेन दुग्धस्य गुणवत्तापरीक्षणं, भण्डारणं, वितरणं च पारदर्शिरूपेण भविष्यति, येन कृषकाणां भुगतानं शीघ्रं सुनिश्चितं भविष्यति।
• समर्थनमूल्येषु वृद्धिः- हिमाचलप्रदेशः देशस्य प्रथमं राज्यं जातः यत्र दुग्धक्रयणे सर्वाधिकं मूल्यं दीयते।
• गोधनदुग्धम्- ३२ रूप्यकेभ्यः वर्धित्वा ५१ रूप्यकाणि प्रतिलीटर।
• महिषीदुग्धम्- ४७ रूप्यकेभ्यः वर्धित्वा ६१ रूप्यकाणि प्रतिलीटर।
• प्रोत्साहनराशिः- दुग्धविक्रयणाय केन्द्रं प्रति दुग्धं नयने कृषकेभ्यः प्रतिलीटर ३ रूप्यकाणि अतिरिक्तं प्रोत्साहनं दीयते।
मुख्यमन्त्रिणः विचारः-
मुख्यमंत्री उक्तवान् यत् राज्यसर्वकारस्य मुख्यं लक्ष्यं “ग्रामीण अर्थव्यवस्थायाः सुदृढ़ीकरणम्” अस्ति। व्यवस्थापरिवर्तनस्य माध्यमेन धनं साक्षात् कृषकाणां हस्ते प्रेष्यते। ‘हिम’ (HIM) इति नाम्ना राज्यस्य दुग्धोत्पादाः विपण्यां प्रवर्तयिष्यन्ते, येन अमूल-वेरका सदृशानां संस्थानां स्पर्धां कर्तुं शक्यते।
“वयं केवलं दुग्धमूल्यं न वर्धयामः, अपि तु ग्रामेषु यूनां कृते स्वरोजगारस्य अवसरान् अपि सृजामः।”
-सुखविंद्र सिंह सुक्खु
कृषिमन्त्रिणः वक्तव्यम्-
कृषिमन्त्री प्रो. चन्द्रकुमारः अवदत् यत् अक्तूबरमासपर्यन्तं ढगवार-संयन्त्रम् आरप्स्यते। सः पशुनां नस्लसुधारे अपि बलं दत्तवान् तथा च उक्तवान् यत् मद्यविक्रयणं यत् ‘सेस’ (Cess) गृह्यते, तस्य उपयोगः दुग्धक्षेत्रस्य विकासाय क्रियते।
हिमाचलप्रदेशस्य कृषकाणाम् आर्थिक- सुदृढ़ीकरणाय सर्वकारस्य प्रयासः- सुखविंद्र सिंह सुक्खु:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
