वैश्विक-ऊर्जा-संकटस्य निवारणाय अन्तर्राष्ट्रिय-ऊर्जा-अभिकरणस्य (IEA) महत्त्वपूर्णः निर्णयः
अन्तर्राष्ट्रिय-ऊर्जा-अभिकरणेन (IEA) घोषितं यत् तस्य सदस्यदेशाः वैश्विक-ऊर्जा-संकटस्य निवारणाय स्वकीयात् आपत्कालीन-भण्डारात् विशालमात्रायां तैलं निष्कासयिष्यन्ति। अभिकरणेन एकस्मिन् वक्तव्ये सूचितं यत् एशिया-ओशेनिया क्षेत्रस्य देशाः तत्कालं तैलप्रदानं आरप्स्यन्ते, यदा तु यूरोप-अमेरिका देशयोः आपत्कालीन-भण्डारात् आपूर्तिः अस्य मासस्य अन्ते आरब्धा भविष्यति। अनेन आपत्कालीन-उपायेन विश्वे तैलस्य आपूर्तिः वर्धिष्यते।
अन्तर्राष्ट्रिय-ऊर्जा-अभिकरणेन चत्वारिंशत् कोटि (400 million) बैरल परिमितं तैलम् निर्देशितुं उद्घोषितम्। इयं मात्रा वर्ष २०२२ मध्ये रूस-युक्रेन-युद्धानन्तरं मुक्तस्य तैलस्य द्विगुणादपि अधिका अस्ति।
अभिकरणस्य नवीन-वृत्तान्त (Report) अनुसारं सदस्यदेशैः ४१ कोटिः विंशतिलक्षं (412 million) बैरल परिमितं तैलं प्रदातुं प्रतिबद्धता प्रकटिता। अस्मिन् प्रायः ७२ प्रतिशतं अपरिष्कृतं तैलं (Crude Oil) भविष्यति, शेषं च परिष्कृतम् उत्पादं भविष्यति।
अमेरिकादेशस्य ऊर्जामन्त्री क्रिस राइट महोदयः अवदत् यत् इरानेन सह संघर्षः आगामिषु कतिपयेषु सप्ताहषेु समाप्तः भविष्यति इति आशा अस्ति। तदनन्तरं वैश्विकस्तरे तैलस्य आपूर्तिः वर्धिष्यते तथा च मूल्येषु न्यूनीकरणं भविष्यति।
