मतुआ धर्ममेलायाः अवसरे केन्द्रीयगृहमन्त्रिणः शुभाशयाः
केन्द्रीयगृहमन्त्री अमितशाहः मतुआ-धर्ममेलायाः शुभोपलक्ष्ये मतुआ-समुदायं वर्धापितवान्। एषः मेला समाजं प्रति भक्ति-समर्पण-समानता-नैतिकमूल्यानां च शिक्षाप्रदातुः श्रीहरिचन्दठाकुरस्य २१५ तमे जयन्त्युत्सवे आयोजितो भवति।
श्रीशाहः सामाजिक-माध्यमेन (सोशल मीडिया) न्यवेदयत् यत् श्रीहरिचन्दठाकुरस्य उपदेशाः अद्यापि अस्माकं कृते नैतिक-पथप्रदर्शकाः सिद्धान्ताः सन्ति। सः आशां प्रकटितवान् यत् पश्चिमबङ्गस्य उत्तर-२४ परगना मण्डले आयोज्यमानः अयं मतुआ-धर्ममेला एतान् सिद्धान्तान् प्रति समाजस्य प्रतिबद्धतां सुदृढां करिष्यति।
