चिकित्सालयवत् कार्यं कुर्वन्तु न्यायपालिकाः- मुख्यन्यायाधीशः सूर्यकान्तः
१५२ कोटिरूप्यकाणां व्ययेन मण्डी-नगरे निर्माणार्हस्य ‘न्यायिकपरिसरस्य’ शिलान्यासः सम्पन्नः
हिमसंस्कृतवार्ता:- मण्डी।
भारतस्य मुख्यन्यायाधीशः न्यायमूर्तिः सूर्यकान्तः मुख्यमन्त्रिणः सुखविन्दरसिंहसुक्खु महोदयस्य उपस्थितौ रविवासरे १५२ कोटिरूप्यकाणां व्ययेन निर्मास्यमाणस्य मण्डी- न्यायिक- परिसरस्य शिलान्यासम् अकरोत्। एतत् अत्याधुनिकं न्यायालयभवनं ९.६ हेक्टेयरमिते भूक्षेत्रे भविष्यति, यस्मिन् चत्वारः ‘खण्डा:’ (Blocks) भविष्यन्ति तथा च न्यायाधीशानां, अधिवक्तॄणां जनसामान्यस्य च कृते उत्तमाः सुविधाः उपलब्धाः भविष्यन्ति।
ततः परं, विधिक-साक्षरताशिविरे मुख्यन्यायाधीशः सूर्यकान्तः अवदत् यत्- “न्यायिक- परिसराणाम् आवश्यकता अस्ति यत् ते चिकित्सालयवत् कार्यं कुर्वन्तु।” सः उक्तवान् यत् यथा जनाः स्वास्थ्यलाभस्य आशया चिकित्सालयं गच्छन्ति, तथैव न्यायव्यवस्थया अपि सेवाभावेन कार्यं करणीयम्। जनाः न्यायालये साहाय्यस्य (relief) आशया आगच्छन्ति, अतः सुविधानां वर्धनेन सह अस्माकं उत्तरदायित्वम् अपि वर्धते। मण्डीनगरं ‘लघुकाशी’ इति नाम्ना विख्यातम् अस्ति, अद्य अत्र न्याय-मन्दिरस्य स्थापना भवति, यत् शीघ्रमेव सज्जं भविष्यति।
मौलिक-कर्तव्यानां गुरुत्वम्
मुख्यन्यायाधीशः अवदत् यत् सर्वे मौलिक- अधिकाराणां चर्चां तु कुर्वन्ति, परन्तु मौलिक- कर्तव्यानि अपि संविधानस्य अभिन्न-अङ्गानि सन्ति। हिमाचलप्रदेशः स्वकीयां प्राकृतिकसुन्दरतां सुरक्षितवान् अस्ति। जनसामान्यं कर्तव्यानां प्रति जागरूकं कर्तुं लघुस्तरे अपि ईदृशानां सङ्गोष्ठीनाम् आयोजनं करणीयम्।
मुख्यमन्त्रिणः सम्बोधनम्- सामाजिकन्यायस्य सङ्कल्प:
मुख्यमन्त्रीमहोदयः मुख्यन्यायाधीशस्य स्वागतं कुर्वन् अवदत् यत्- “प्रत्येकं नागरिकं प्रति न्यायस्य अधिकारस्य च प्राप्तिः अस्माकं सर्वकारस्य सङ्कल्पः अस्ति।” सः सर्वकारस्य उपलब्धीनां विषये उक्तवान् यत् ६००० अनाथ- बालकाः राज्यस्य बालकाः (चिल्ड्रन ऑफ द स्टेट) इति रूपेण अङ्गीकृताः। कन्याणां विवाहवयः २१ वर्षाणि कृताणि। पैतृक-सम्पत्तौ कन्याभ्यः अपि १५० बीघापरिमितं समानम् अधिकारं दत्तम्। राजस्वयायालयस्य आयोजनेन ५.५ लक्षं लम्बित- प्रकरणानां निस्तारणं कृतम्। मुख्यमन्त्रिणा पुनः एकदा राजस्व- हानि- अनुदानस्य (RDG) स्थगनस्य विषये चिन्ता प्रकटिता, यत् अनुच्छेद- २७५(१) अन्तर्गतं ७३ वर्षेभ्यः मिलति स्म।
अन्य-न्यायाधीशानां विचारा:
न्यायमूर्तिः गुरमीत सिंह संधावालिया: सः अवदत् यत् न्यायः केवलं न्यायालय-कक्षाभ्यः बहिः गत्वा प्रत्येकं जनं प्रति प्राप्तव्यः।
न्यायमूर्तिः विवेकठाकुरः अवदत् यत् कर्तव्यानां पालनेन अधिकाराणां रक्षा स्वयं भवति। न्यायमूर्तिः अजयमोहन गोयलः अवदत् यत् मण्डीनगरस्य एषा पुरातनी अभ्यर्थना अद्य पूर्णा अभवत्।
न्यायमूर्तिः संदीपशर्मा सर्वेभ्यः धन्यवादं ज्ञापितवान्। अस्मिन् अवसरे न्यायमूर्तिः ज्योत्सना रिवाल दुआ, सुशील कुकरेजा, वीरेंद्र सिंह, रंजन शर्मा, बिपिन चंद्र नेगी, राकेश कैंथला, जिया लाल भारद्वाज, रोमेशवर्मा इत्यादयः गणमान्याः अतिथयः उपस्थिताः आसन्।
चिकित्सालयवत् कार्यं कुर्वन्तु न्यायपालिकाः- मुख्यन्यायाधीशः सूर्यकान्तः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
