मुख्यमन्त्री उक्तवान् यत् संविधानस्य भावनानुगुणं भवतु राज्याणां अधिकाररक्षा
मण्डीनगरस्य ‘संस्कृतिसदने’ मौलिक- अधिकार- कर्तव्य- विषये सङ्गोष्ठ्याः आयोजनम्
हिमसंस्कृतवार्ता:- मण्डी।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खु: रविवासरे मण्डी- नगरस्य संस्कृतिसदने ‘मौलिक अधिकारः एवं कर्तव्यम्’ इति विषये आयोजितायां सङ्गोष्ठ्यां राजस्व- हानि- अनुदानस्य (RDG) विषये वक्तुं न विस्मृतवान्। अस्मिन् आयोजने मौलिक- अधिकार- कर्तव्यानां वर्तमानपरिदृश्ये चर्चा प्रचलति स्म। अस्मिन् अन्तरे स्वकीये सम्बोधने मुख्यमन्त्री संविधानस्य उल्लेखं कुर्वन् केन्द्रपक्षतः ‘आरडीजी’ (RDG) समाप्ति-विषये उक्तवान्।
मुख्यमन्त्री अवदत् यत्- “एषः कोऽपि राजनैतिकमञ्चः नास्ति, परन्तु खिन्नेन मनसा वक्तव्यं भवति यत् हिमाचलप्रदेशाय स्वकीय- अधिकाररूपेण प्राप्यमाणं राजस्व-हानि-अनुदानं स्थगितं कृतम् अस्ति, येन राज्यस्य वित्तीय-स्थितौ महत् प्रभावः अभवत्। एतत् अनुदानं हिमाचलप्रदेशाय संविधानस्य अनुच्छेद-२७५(१) इत्यस्य अन्तर्गतं प्रदीयते स्म। १९५२ तमे वर्षे आरब्धायाः अस्याः व्यवस्थायाः अन्तर्गतं विगतेभ्यः ७३ वर्षेभ्यः हिमाचलप्रदेशः एतद् ‘अनुदानं’ (Grant) निरन्तरं प्राप्नोति स्म।”
सः उक्तवान् यत्- “भारतस्य संविधानं विश्वस्य अतीव व्यापकं प्रगतिशीलं च संविधानं वर्तते, एतच्च अस्माकं लोकतन्त्रस्य आधारशिला अस्ति। संविधानं प्रत्येकं नागरिकं प्रति मौलिक- अधिकारान् प्रयच्छति, येन तेषां कृते गरिमा- स्वतन्त्रता- समानताभिः सह जीवनयापनस्य अवसरः लभ्यते।” सः अपि अवदत् यत् अस्माभिः एतत् अपि स्मर्तव्यं यत् अधिकारैः सह कर्तव्यानि अपि तावदेव महत्त्वपूर्णानि सन्ति। यदि वयं स्व-अधिकारणां लाभं स्वीकर्तुम् इच्छामः, तर्हि स्व-कर्तव्यानां पालनम् अपि पूर्ण-निष्ठया करणीयम्।वर्तमाने जगत् तीव्रगत्या परिवर्तते, अतः मौलिक- अधिकार-कर्तव्यानां महत्त्वं बहुधा वर्धितम् अस्ति। उदयीमानेसु आह्वानेषु विधिज्ञानस्य महत्त्वम् अपि वर्धितम्। मुख्यमन्त्रिणः मतेन विधिक- साक्षरतायाः (Legal Literacy) माध्यमेन समाजे न्यायः, समानता, संवैधानिक-मूल्यानि च सुदृढानि कर्तुं शक्यन्ते। सः अवदत् यत् संविधानस्य भावनानुसारं राज्यसर्वकारः समावेशी-विकासं सामाजिकन्यायं च निश्चितुं कार्यं करोति। शिक्षा- स्वास्थ्य- सामाजिकसुरक्षा-पारदर्शि-प्रशासनानां माध्यमेन एतत् सुनिश्चितं क्रियते यत् प्रत्येकं नागरिकं समान-अवसरं प्राप्नुयात् लोकतन्त्रस्य मूलानि च अधिकाधिकं सुदृढानि भवेयुः।
मुख्यमन्त्री उक्तवान् यत् संविधानस्य भावनानुगुणं भवतु राज्याणां अधिकाररक्षा
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
