नाहनसंस्कृतमहाविद्यालयस्य ज्योतिषाचार्येण डॉ.ज्ञानेश्वरशर्मणा राष्ट्रीयसंगोष्ठ्यां प्रस्तुतं शोधपत्रम्
नवदेहली-: श्रीलालबहादुरशास्त्री-राष्ट्रिय-संस्कृत-विश्वविद्यालयस्य ज्योतिषविभागेन सद्यः “भारतीयज्ञानपरम्परायां ज्योतिषशास्त्रस्य उपादेयता कालगणना च” इति विषयमधिकृत्य एकदिवसीया राष्ट्रियसङ्गोष्ठी समायोजिता। अस्मिन् कार्यक्रमे देशस्य विभिन्नविद्वद्भिः भारतीयप्राचीनविज्ञानस्य समयगणनायाश्च प्रासङ्गिकताविषये स्वविचाराः प्रस्तुताः। अस्यां संगोष्ठ्यां गोरखनाथसंस्कृतमहाविद्यालयः, नाहनम् इत्यस्याः संस्थायाः ज्योतिषविभागस्य आचार्येण डॉ.ज्ञानेश्वरशर्मणा मुख्यवक्तृरुपेण स्वविचाराः प्रस्तुताः। सङ्गोष्ठ्यां सम्बोधयन् तेनोक्तं यत्— भारतीयज्ञानपरम्परायां समयस्य सूक्ष्मविश्लेषणं ज्योतिषशास्त्रस्य च भूमिका अनन्या वर्तते। तेन प्राचीनग्रन्थानां साक्ष्यैः कालगणनायाः वैज्ञानिकपक्षाः विस्तरेण प्रतिपादिताः।
मातृसंस्थां प्रति कृतज्ञता-:
तेन स्वकीये उद्वोधने उक्तं यत् एतत् मम विशेषसौभाग्यं यत् अस्यामेव प्रतिष्ठितमातृसंस्थायां मया अध्ययनं कृतम्। स्वकीयायां मातृसंस्थायां मुख्यवक्तृरूपेण पुनरागमनं मम कृते गौरवपूर्णं चिरस्मरणीयञ्च क्षणमस्ति। तेन स्वगुरुजनान् संस्थानञ्च प्रति महती श्रद्धा कृतज्ञता च प्रकटिता।
