क्युबा-देशे मानवीय-सङ्कटम्
संयुक्तराष्ट्रस्य एकेन प्रवक्त्रा कथितं यत् क्युबा-देशे इन्धनस्य अभावात् मानवीय-सङ्कटम् उत्पन्नम् अस्ति, तत्र च स्वास्थ्यव्यवस्था गम्भीरायां स्थितौ प्राप्ता। संयुक्तराष्ट्र-मानवीय-कार्य-समन्वय-कार्यालयेन (OCHA) उक्तं यत् चिकित्सालयेषु वारं वारं विद्युत्-अवरोधः, अत्यावश्यक-औषधीनां न्यूनता, महत्त्वपूर्ण-यन्त्राणां संचालने असमर्थता च वर्तते। अस्मात् कारणात् आपत्कालीन-सेवाः, शिशु-मातृ-रक्षणं, ‘कोल्ड-चेन’ प्रणाली, चिरकालिक-रोगाणां उपचारः च महता व्यधानेन प्रभाविताः सन्ति। रुग्णवाहिकानां (Ambulance) कृते अपि इन्धन-प्राप्तौ काठिन्यं भवति, येन आपत्कालीन-चिकित्सायां विलम्बः जायते।
अमेरिका-प्रशासनेन गतमासे घोषितं यत् तत् क्युबा-देशे किञ्चित् तैल-आपूर्तेः अनुमतिं ददाति, किन्तु एतत् केवलं निजी-क्षेत्रेभ्यः विक्रेतुं शक्यते, सर्वकाराय न। वाशिंगटन-नगरेण पूर्वं वेनेजुएला-देशात् क्युबा-देशं प्रति गच्छतः तैलस्य उपरि निर्बन्धः (Sanctions) आरोपितः आसीत्। संयुक्तराष्ट्रस्य प्रवक्त्रा उक्तं यत् एषा जागतिक-संस्था अमेरिकासहितैः सदस्यदेशैः सह चर्चां करोति, येन सहायता निर्बाधं प्राप्तुं शक्येत।
क्युबा-देशे मानवीय-सङ्कटम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
