राधाकृष्णन-दर्शनम्-: शाश्वतम् समसामयिकं च – अन्ताराष्ट्रिय-संगोष्ठी आयोजिता
शिमला:भारतीय-उच्च-अध्ययन-संस्थाने (IIAS) आयोजितायाः “राधाकृष्णनस्य दर्शनम्: शाश्वतम् समसामयिकं च” इति विषयक-द्विदिवसीय-अन्ताराष्ट्रिय-संगोष्ठ्याः उद्घाटनसत्रे केन्द्रीय-संस्कृत-विश्वविद्यालयस्य कुलपतिः प्रो. श्रीनिवास वरखेड़ी महोदयः मुख्यभाषणं दत्तवान्।
स्वकीय-भाषणे तेन प्रतिपादितं यत् सर्वपल्ली राधाकृष्णन महोदयः भारतीयदर्शनस्य, विशेषतः वेदान्तस्य, आधुनिकसन्दर्भे व्याख्यां कृत्वा भारतीयज्ञानपरम्परां वैश्विक-बौद्धिक-विमर्शेण सह सङ्योजितवान्। तेन स्थापितं यत् भारतीयदर्शनं मानवतायै नैतिकसमरसतां, आध्यात्मिकैक्यां, वैश्विकसद्भावं च प्रदर्शयन्ती एका जीवन्ती परम्परा अस्ति।
सत्रस्य मुख्यांशाः
विशिष्टोपस्थितिः-: अस्मिन् उद्घाटनसत्रे संस्थानस्य निदेशकः प्रो. हिमांशु कुमारचतुर्वेदी तथा अध्यक्षा प्रो. शशिप्रभा कुमार: च गरिमामय्या उपस्थित्या सत्रं शोभायितवन्तौ।
ग्रन्थविमोचनम्-: अस्मिन् अवसरे संस्थानस्य मुख्यानां प्रकाशनानां विमोचनं कृतम्।
नूतन-सम्मेलन-कक्षस्य उद्घाटनम्-: ‘सिद्धार्थ विहार’ अतिथिगृहे अत्याधुनिक-तन्त्रज्ञान-सम्पन्नस्य नूतन-सम्मेलन-कक्षस्य उद्घाटनम् अपि कृतम्, यत् अन्ताराष्ट्रिय-शैक्षणिक-संवादं सुदृढं करिष्यति।
