साइबर-चौराणां नूतना रीतिः: बैंक-कर्मचारिणः भूत्वा जनान् वञ्चयन्ति
साइबर-वञ्चकाः (Cyber Thugs) आत्मानं बैंक-कर्मचारिणः इति कथयित्वा जनान् वञ्चयन्ते। एते वञ्चकाः सुलभ-ऋणस्य (Cheap Bank Loan), ‘क्रेडिट्-कार्ड्’ सीमावर्द्धनस्य च व्याजेन ‘व्हाट्स-अैप्’, सन्देशैः, दूरवाणी-कौल-माध्यमेन च जनान् प्रलोभयन्ति। एते धूर्ताः निजी-बैंकस्य कर्मचारिणः इति छद्मवेषं धृत्वा जनान् लुण्ठन्ति। साइबर-आरक्षकदलेन (Cyber Police) एतादृशेभ्यः वञ्चकेभ्यः रक्षितुं मार्गदर्शिका (Advisory) निर्गता अस्ति। हिमाचलप्रदेशे अपि सुलभ-ऋणस्य, ‘क्रेडिट्-कार्ड्’ सीमावर्द्धनस्य च विषये जनानां समीपे अनेके दूरवाणी-कल्स (Calls) आगच्छन्ति। साइबर-वञ्चकाः जनान् जाले पातयितुं नूतनान् मार्गान् अन्विष्यन्ति। सुलभ-ऋणस्य, ‘फास्ट-टैग’ इत्यस्य च अतिरिक्तम् अधुना एते ‘क्रेडिट्-कार्ड्’ सीमावर्द्धनस्य नाम्ना वञ्चनायाः प्रयासं कुर्वन्ति। देशस्य विविधराज्येषु निरन्तरं जायमानानां घटनानां कारणात् साइबर-आरक्षकदलेन हिमाचलस्य जनता सचेतिता अस्ति। आरक्षकदलस्य विश्वासः अस्ति यत् हिमाचलप्रदेशे अपि जनाः एतादृशैः सन्देशैः दूरवाणी-कौलैः च पीडिताः सन्ति।
साइबर-चौराणां नूतना रीतिः: बैंक-कर्मचारिणः भूत्वा जनान् वञ्चयन्ति
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
