विंशति: – विंशति: विश्वचषके भारतेन ज़िम्बाबे दलं 72 धावनांकैः पराजितम्
हिमसंस्कृतवार्ता: – कामेश्वर शर्मा। गत दिवसे विंशति: – विंशति: क्रिकेटविश्वचषके चेन्नई इत्यस्य MA चिदंबरम् इति क्रीडांगणे भारतेन ज़िम्बाबे देशं 72 धावनांकैः पराजितम्। पणकं विजित्य ज़िम्बाबे देशेन क्षेत्ररक्षणं चयनितम् । भारतस्य प्रारम्भः सुदृढः अभवत्।भारतस्य पक्षतः संजुसैमसनः 24 ,अभिषेकशर्मा 55 ,ईशानकिशनः 38, सूर्यकुमारयादव: 33 , हार्दिकपांड्या अविजितः 50 तथा तिलकवर्मा अविजितः 44 धावनांकान् अर्जितवन्तः।एतेषां सहयोगेन भारतेन विंशति: कन्दुकचक्रेषु 4 स्तोभहानौ 254 धावनांकाः अर्जिताः प्रत्युत्तरे ज़िम्बाबे देशस्य प्रारम्भ: सुदृढ़: अभवत् ।ज़िम्बाबे पक्षत: मारुमनि 20, बैनेट अविजितः 97 तथा सिकन्दरः रजा 31 धावनांकान् अर्जितवन्तः । एतेषां सहयोगेन जिम्बाबे देशः 6 स्तोभानां हानौ 184 धावनांकानेव अर्जितवान् ।
स्वकीयोत्तम प्रदर्शनाय हार्दिक पांड्या स्पर्धापुरुषः चयनितः ।
विंशति: – विंशति: विश्वचषके भारतेन ज़िम्बाबे दलं 72 धावनांकैः पराजितम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
