राष्ट्रीयस्वयंसेवकसंघस्य सरसंघचालकस्य डॉ. मोहनरावभागवतस्य संबोधनम्
राष्ट्रीयस्वयंसेवकसंघस्य (आर.एस.एस.) प्रमुखः डॉ. मोहनरावभागवतः उक्तवान् यत् संघं ज्ञातुम् अन्तः प्रविश्य निरीक्षणम् आवश्यकम् अस्ति। सः अवदत् यत् संघः राष्ट्रहितार्थं कार्यं करोति, तस्मै न तु सत्ता, न लोकप्रियता, न च अधिकाराः अपेक्षिताः, नापि तस्य प्रसिद्धिप्राप्तेः कापि आकाङ्क्षा अस्ति। द्विवसीय-पञ्जाब-भ्रमणवेलायां डॉ. भागवतः ह्यः पठानकोट्-नगरे ‘सेवामुक्त-सेनाधिकारी-गोष्ठीम्’ सम्बोधितवान्। सः सर्वेषां श्रेणीनां निवृत्त-सेनाधिकारिभिः सह संवादं कृतवान्।
डॉ. भागवतः प्रतिपादितवान् यत् भारतीयसेना ‘विविधतायाम् एकतायाः’ श्रेष्ठं उदाहरणम् अस्ति, एषा एव भावना समाजे अपि सुदृढा करणीया। सः उक्तवान् यत् ये व्यक्तयः संस्थाः च राष्ट्रहितकार्ये संलग्नाः सन्ति, तेभ्यः अस्माकं सर्वेषां सहयोगः प्राप्तव्यः। डॉ. भागवतः अवदत् यत् केवलं सीमानां रक्षणं पर्याप्तं नास्ति; सामाजिकं सामञ्जस्यम्, आर्थिकी शक्तिः, सांस्कृतिक-आत्मविश्वासः च अपि तावदेव महत्त्वपूर्णाः सन्ति। सः सामाजिकसद्भाव-नागरिककर्तव्य-पर्यावरणसंरक्षण-पारिवारिकमूल्य-स्वदेशी-राष्ट्रियसुरक्षादि-विषयेषु अपि स्वविचारान् प्रकटितवान्।तत्र ‘वन्दे मातरम्’ इति गीतस्य इतिहाससम्बद्धा, तस्य गायन-मर्यादा-विषयिणी च एका विशेषप्रदर्शनी आयोजिता आसीत्। तस्यां प्रदर्शिन्यां त्रयाणां सेनादलानां ‘परमवीरचक्र’ विजेतृणाम् प्रेरणादायकानि चित्राणि अपि प्रदर्शितानि आसन्।
राष्ट्रीयस्वयंसेवकसंघस्य सरसंघचालकस्य डॉ. मोहनरावभागवतस्य संबोधनम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
