श्रीवामदेवसंस्कृतमहाविद्यालये पञ्चत्रिंशद्बटूनां यज्ञोपवीतसंस्कारः
चित्रकूटधाम बांदा || षड्विंशत्यधिकद्विसहस्रतमे कृष्टाब्दे द्वितीयमासस्य द्वाविंशतितमे दिनाङ्के रविवारसरे श्रीवामदेवसंस्कृतमहाविद्यालये पञ्चत्रिंशद्बटूनां यज्ञोपवीतसंस्कारकार्यक्रमः सम्पन्नोऽभवत्। यतो हि वैदिककालीनायाः शिक्षाया आरम्भः उपनयनसंस्कारादेव भवति स्म तस्माद्धेतोः गुरुजनानां सान्निध्ये बटूनामुपनयनसंस्कारः व्यधायि।
आयोजितेऽस्मिन् कार्यक्रमे बांदानगरस्य सदरविधायकवर्य: श्रीमान्प्रकाशद्विवेदिवर्य: मुख्यातिथिरूपेण पूर्वजनपदपञ्चायताध्यक्षः जगरामसिंहचौहानमहाशय: अथ च विशिष्टातिथिरूपेण भारतीयजनतापक्षस्य वरिष्ठनेता राष्ट्रियपरिषदः सदस्यश्च सन्तोषगुप्ता सारस्वतातिथिरूपेण च गरिमामय्या उपस्थित्या विराजन्ते स्म।श्रीवामदेवसंस्कृतमहाविद्यालयस्य प्राचार्यस्य डॉ.नरवदेनारायणदीक्षितवर्याणाम् अध्यक्षतायाम् अस्मिन् कार्यक्रमे बटवः वैदिकमन्त्रैः गायत्रीमन्त्रम् अशृण्वन् प्रतिदिनं गायत्रीजपानुष्ठानस्य सङ्कल्पं च अगृह्णन्।
कानपुर-सीतापुर-हमीरपुर-महोबा-बाँदानगराणां सुदूरक्षेत्रेभ्यः आगता अनेके विद्यालयाद् बहिःस्थाः छात्रा अपि स्वकीययज्ञोपवीतसंस्कारम् अकारयन्।
आदौ कार्यक्रमस्य शुभारम्भे डॉ. इच्छारामपाठक: पञ्चाङ्गपूजनपूर्वकं सर्वदेवानां पूजनम् अकारयत्।आचार्यशुक्लदीनदयालेन अन्यैश्चाचार्यैः वैदिकमन्त्रोच्चारणविधिभिः ब्रह्मचर्यनियमानां विधिवत्परिपालनाय बटुभ्यो निर्देशान् अददुः। अग्नौ आहुतिप्रदानेन सह ते सूर्यस्य सरस्वत्याश्च आराधनं चक्रिरे। अन्ते वादित्रघोषपुरःसरं शोभायात्रा नगरभ्रमणं च बलखण्डीनाकास्थलात् प्रावर्तत। तत्र बटवः महेश्वरीदेवीमन्दिरे मातुर्दर्शनं वन्दनं च कृत्वा पुनः कोतवालीमार्गेण क्षुद्रविपणिमार्गेण च महाविद्यालयप्राङ्गणं प्रत्यागच्छन्।विद्यालयस्य प्रबन्धकः गुप्तजतिनः अध्यक्षः गुप्तमेवालालश्च सर्वभ्यः अभिभावकेभ्यः अतिथिभ्यश्च विद्यालयपरिसरे भोजनप्रसादस्य व्यवस्थाम् अकुरुताम्।अस्मिन्नवसरे विद्यालयस्य आचार्येषु आचार्य अभयपाण्डेय:, श्रीमती डॉ मनोजत्रिपाठी, श्रीमान् अजयसिंह:, श्रीरमाकान्तत्रिपाठी, तथा सूरजबलीगुप्त, डॉ. ओमप्रकाश तिवारी, काशीतः समागताः वैदिकविद्वांसः मैथिलविद्वांसः गडरियेतिनामकसंस्कृतविद्यालयस्य डॉ. त्रिपाठिन्मनहरणः इत्यादयश्चोपस्थिता: अभवन्।
श्रीवामदेवसंस्कृतमहाविद्यालये पञ्चत्रिंशद्बटूनां यज्ञोपवीतसंस्कारः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
