मर्कट-कुविन्द-कथा (बन्दर और गौरैया की कहानी)
नर्मदा-नद्याः तीरे एकः विशालः शाल्मली-वृक्षः आसीत्। तत्र अनेकाः चटकाः (गौरैया) नीडान् (घोंसले) निर्माय सुखेन वसन्ति स्म।
एकदा शीतकाले महती वृष्टिः (तेज वर्षा) अभवत्। वर्षायाः कारणेन एकः मर्कटः (बन्दर) शीतार्तः (ठंड से व्याकुल) भूत्वा तस्य वृक्षस्य अधः अतिष्ठत्। तस्य सर्वाणि अङ्गानि कम्पन्ते स्म।
तं दृष्ट्वा दयालुः एका चटका नीडात् उक्तवती—
“भो मर्कट! पश्य, अस्माकं चञ्चुमात्रेण (चोंच मात्र से) निर्मिताः नीडाः अस्मान् रक्षन्ति। त्वं तु हस्त-पाद-विशिष्टः (हाथ-पैर वाला) असि। किमर्थं न एकं गृहं रचयसि?”
एतत् श्रुत्वा मर्कटः कुपितः (क्रुद्ध) अभवत्। सः अचिन्तयत्— “अहो! इयं क्षुद्रा चटका मां शिक्षयति? मम उपहासं करोति?”
यदा वर्षा विरता (रुकी), तदा सः मर्कटः वृक्षम् आरुह्य तस्याः चटकायाः नीडं छिन्न-भिन्नं (नष्ट) कृतवान्। सा निःसहाय्या चटका अपि आश्रयहीना अभवत्।
शिक्षा (Moral):
“उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये।”
अर्थात्— मूर्खों को दिया गया उपदेश केवल उनके क्रोध को बढ़ाता है, उन्हें शान्त या सुधारता नहीं है।
मर्कट-कुविन्द-कथा (बन्दर और गौरैया की कहानी)
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
