भारत-स्वीडन-देशयोः हरित-प्रौद्योगिकी-अनुसन्धान-सहयोगस्य सुदृढीकरणाय प्रतिबद्धता
भारत-स्वीडन-देशयोः मध्ये हरित-प्रौद्योगिक्याः, अनुसन्धानस्य, विकासस्य च क्षेत्रे सहयोगं सुदृढं कर्तुं तथा च भारत-यूरोपीय-सङ्घ-मुक्त-व्यापारसन्धेः (India-EU FTA) रूपरेखायाः अन्तर्गतं सम्बन्धं अग्रे नेतुं प्रतिबद्धता व्यक्ता।नवदेहली-नगरे स्वीडन-देशस्य उप-प्रधानमन्त्रिणा एब्बा बुश महोदयेन सह मेलने वाणिज्य-उद्योगमन्त्री पीयूष गोयल वर्यः अवदत् यत् विशाल-विपण्याः (Market) तथा च निवेश-अनुकूल-प्रत्यक्ष-विदेशी-निवेश-व्यवस्थायाः (FDI) कारणेन भारतं वैश्विक-निवेशस्य प्रमुखकेन्द्ररूपेण उदीयमानं भवति। श्री गोयलः उक्तवान् यत् भारतस्य कुशलाः युवानः तथा च स्वीडन-देशस्य नवाचार-क्षमता (Innovation capacity) तौ शाश्वत-विकासस्य (Sustainable development) कृते स्वाभाविक-सहयोगिनौ कुरुतः।
अस्मात् पूर्वं श्री गोयलः फिनलैण्ड-देशस्य प्रधानमन्त्रिणा आन्ति पेत्तरी ओरपो महोदयेन सहापि मिलितवान्। उभौ नेतारौ अवदतां यत् भारत-यूरोपीय-सङ्घ-व्यापार-सहमतिपत्रे सेवा-प्रौद्योगिकी-हरित-ऊर्जा-सहितेषु प्रमुखक्षेत्रेषु सहयोगस्य महत्तरं अवसरं प्रदास्यति, येन भारत-फिनलैण्ड-देशयोः व्यापार-निवेश-सम्बन्धाः अधिकाः सुदृढाः भविष्यन्ति।
