भारत-स्विट्जरलैण्ड्-मैत्री: सुदृढीकरणस्य अभिनवः सोपानः
इंडिया एआई इम्पैक्ट समिट (India AI Impact Summit) इत्यस्य कृते वैश्विकनेतारः निरन्तरं नवदेहलीं प्राप्नुवन्ति। स्विट्जरलैण्ड्-देशस्य राष्ट्रपतिः गी पॉहमेलॉ अद्य राष्ट्रियराजधानीं प्राप्तवान्।
विदेशमन्त्रालयेन सामाजिक-माध्यमस्य सन्देशे सूचितं यत् राष्ट्रपति-पॉहमेलॉ-महोदयस्य अनया यात्रया भारत-स्विट्जरलैण्ड्-देशयोः सहभागिता पारस्परिकहितस्य विविधक्षेत्रेषु अधिका सुदृढ़ा भविष्यति।
