वेदविभागेन “भारतीयसेनान्यः प्रति युवसु जागरूकता” विषये एकदिवसीया राष्ट्रीयसंगोष्ठी सुसम्पन्ना
संवादप्रेषकः – डॉ आलोकः
स्थानम् – कटनी,मध्यप्रदेशः
पुलवामा-आतङ्किहिंसाकाण्डे वीरगतिं प्राप्तानां शूरसैनिकानां पुण्यस्मृत्यर्थं दिनाङ्के १४ फरवरी २०२६ शनिवासरे महर्षि महेश योगी वैदिक विश्वविद्यालय-इत्यस्य माननीयकुलगुरोः प्रो० प्रमोदकुमारवर्ममहाभागस्य संरक्षणे “भारतीयसेनान्यः प्रति युवसु जागरूकता” इति विषये एकदिवसीया राष्ट्रीयसंगोष्ठी सम्यगायोजिता।
अस्यां शुभावसरे द्वे सत्रे सञ्चालिते। प्रथमे सत्रे भारतमातुः पूजार्चनया कार्यक्रमस्य शुभारम्भः अभवत्। अनन्तरं शहीद-मङ्गलपाण्डेय-महाभागस्य स्मारके माल्यार्पणपूर्वकं वीरशहीदेषु श्रद्धाञ्जलिरर्पिता। द्वितीयसत्रे तु “भारतीयसेनान्यः प्रति युवसु जागरूकता” इति विषयकं व्याख्यानपरं विमर्शसत्रं सम्पन्नम्।
विशेषकर्तव्यस्थाधिकाऱिणः डॉ० के० के० त्रिपाठी-महाभागस्य परामर्शानुसारं एषः कार्यक्रमः पेंडरई-ग्रामे स्थितस्य मङ्गलपाण्डेयस्मारकस्य समीपे मध्याह्नवेलायां सम्पन्नः। आदौ भारतमातुः पूजार्चनान्तरम् उपस्थितैः सर्वैर्गण्यमान्यजनैः पुलवामाघटनां सहितं राष्ट्ररक्षणार्थं प्राणोत्सर्गं कृतवद्भ्यः सर्वेभ्यः वीरसैनिकेभ्यः श्रद्धासुमनैः श्रद्धांजलिः प्रकटिता। मौनेन द्विनिमेषपर्यन्तं तेषां प्रति विनम्रनमनं कृतम्।
अस्य कार्यक्रमस्य अध्यक्षतां योगविभागाध्यक्षः डॉ० नित्येश्वरचतुर्वेदी-महाभागः कृतवान्। ढीमरखेडास्थ-पेंडरई-ग्रामस्य ग्रामणीः (सरपंच) श्री अखिलदुबेवर्यः विशेषातिथिरासीत्। स्मारकनिर्माता महर्षि वेद विज्ञान विद्यापीठम्, करौंदी-संस्थायाः आचार्यः श्री ललितगौतमः मुख्यवक्तारूपेण उपस्थितः।
कार्यक्रमसंयोजकः डॉ० आलोकचन्द्रपरिडामहाभागः उद्देश्यकथने उक्तवान्— “राष्ट्ररक्षा समं न किञ्चन पुण्यं, न कश्चन व्रतोपवासः, न कश्चन यज्ञो वर्त्तते ; अतः राष्ट्ररक्षणमेव परमं कर्तव्यम्” इति।
वक्तृभिः स्वस्वोद्बोधनेषु आत्माहुतिप्रदत्तानां वीरानाम् अदम्यसाहसं राष्ट्रनिष्ठां, त्यागभावञ्च युवानां प्रेरणास्रोतरूपेण निर्दिश्य राष्ट्रसेवासंकल्पस्य सुदृढीकरणाय आह्वानं कृतम्।
अस्मिन् अवसरे “भारतीयसेनान्यः प्रति युवसु जागरूकतामानेतुं संवेदनशीलतामभिवर्धयितुं च प्रकाशगर्गः (पेंडरई, ढीमरखेडा) तथा सविताबाजपेयी (महनेर,कटनी) इत्यनयोः आत्माहुतिप्रदत्तयोः द्वयोः परिवारसदस्ययोः माल्यार्पणेनाङ्गवस्त्रसमर्पणेन च सम्मानः कृतः।
अस्मिन् अवसरे पेंडरई-ग्रामस्य तथा समीपवर्तिनः डॉ० सुनीलगर्गवर्यः, श्रीसुदर्शनमिश्रः, श्रीसौरभमिश्रप्रभृतयः बहवः गण्यमान्यजनाः उपस्थिताः आसन्। तथैव विश्वविद्यालयस्य डॉ.नवीनचौबे, श्री अशोकसिंह, डॉ.खुशेन्द्रचतुर्वेदी, डॉ.चन्द्रशेखरमिश्र, डॉ.अंकितराठौर, श्री हरिनारायणशर्मा, श्रीधनीरामत्रिपाठी, श्रीस्वतन्त्रद्विवेदी, श्रीकिशोरमहलोनिया, श्रीमती माधुरीगर्गः, श्रीमतीरञ्जितापरौहा इत्यादिभिः शिक्षकबन्धुभिः सह छात्राणां च उत्साहपूर्णा सक्रियसहभागिता अभवत्।
कार्यक्रमस्य समापनं राष्ट्रगानेन आत्माहुतिप्रदत्तनामादर्शान् आत्मसात्कर्तुं सामूहिकसंकल्पेन च सम्पन्नम्।
द्वितीयसत्रं तावत् मध्याह्ने द्विवादने आरभ्य आभासीय-जूम-पटलमाध्यमेन महर्षि महेश योगी वैदिक विश्वविद्यालयस्य वेदविभागेन, ग्लोबल संस्कृत फोरम,मध्यप्रदेश प्रान्त-संस्थया सह संयुक्ततत्त्वावधानेन माननीयकुलगुरोः प्रो. प्रमोदकुमारवर्ममहाभागस्य संरक्षणे प्रो.मानवेन्द्रपाण्डेयमहोदयस्य कुशलमार्गदर्शनेन च कार्यक्रमः सफलतया समायोजितः।
सर्वादौ डॉ. चन्द्रशेखरमिश्रमहाभागेन मङ्गलाचरणेन व्याख्यानकार्यक्रमस्य शुभारम्भः कृतः। तदनु समागतातिथिनां परिचयः स्वागतं च डॉ खुशेन्द्रदेवचतुर्वेदीवर्येण कृतः।
कार्यक्रमस्य संयोजकः डॉ० आलोकचन्द्रपरिडा (वेद-विभागाध्यक्षः) कार्यक्रमोद्देश्यानि प्रतिपाद्य वेदोपनिषदुक्तोदाहरणैः शीर्षकविषयोन्मुखीकृतवान्। महोदयेन राष्ट्ररक्षणं स्वधर्म(कर्तव्यं) इति निर्दिश्य स उक्तवान्—”कर्तव्यम् एव कर्तव्यं प्राणैः कण्ठगतैरपि” अपिच “स्वधर्मे निधनं श्रेयः परधर्मो भयावहः” (श्रीमद्भगवद्गीता ३।३५) इति। अस्माभिः सर्वैः राष्ट्ररक्षणार्थं वीरसैनिकानामात्माहुतेः स्मरणपूर्वकं सदा कर्तव्यपरायणैः भूत्वा स्वधर्मे स्वकर्मयज्ञे च—
“राष्ट्राय स्वाहा, इदं राष्ट्राय, इदं न मम”इत्येवं भावनया आहुतयः दातव्याः। अनेन “वयं राष्ट्रे जागृयाम पुरोहिताः” (यजुर्वेद ९।२३)
वयं राष्ट्रस्य शुभचिन्तकाः भूत्वा राष्ट्रं सदा जागृतं सजीवं च धारयितुं शक्नुमः।
पश्चात् मुख्यवक्ता श्री जे.वी. पाण्डेयमहाभागेन भारतीयसेनायाः गौरवशालीतिहासः, वर्तमानसंघर्षः, युवानां कृते स्वस्य शिक्षाप्रशिक्षकत्वेन अनुभवान् निरूपितवान्। महोदयेन विपत्तौ राष्ट्रीयसंकटकाले च सेनायाः महत्वपूर्णभूमिकाऽपि प्रकाशिता।
विशिष्टवक्तारः धर्मगुरुः श्री संजय रथ-महाभागः राष्ट्रसेवां परमधर्मत्वेन प्रतिपाद्य युवानामात्मबलचरित्रनिर्माणयोः प्रेरणां दत्तवान्। प्रार्थनां दैवीशक्तित्वं निर्दिश्य अस्माकं प्रार्थनया सेनायाः सुदृढीकरणे तत्प्रभावं कथितवान्।
अनन्तरं धर्मगुरुः श्री जलजशर्म-महाभागः वैदिकपरम्परायां राष्ट्ररक्षणस्य अवधारणां स्पष्टीकृत्य “जननी जन्मभूमिश्च स्वर्गादपि गरीयसी” इति रामवचनं उद्धृत्य राष्ट्ररक्षणस्य परमप्राधान्यं निरूपितवान्।
अध्यक्षीयोद्बोधने योगविभागाध्यक्षः डॉ नित्येश्वरचतुर्वेदीमहाभागः उक्तवान् – प्रियाः युवानः! अद्य अस्माकं चिन्तनविषयः अतीव महत्त्वपूर्णः अस्ति— राष्ट्रस्य सीमा, स्वाधीनता, अखण्डता च यैः वीरैः रक्ष्यते, तेषां प्रति सम्मानभावः, कृतज्ञता च अस्माकं सर्वेषां कर्तव्यम् इति। भारतीयसेनायाः त्यागः, अनुशासनम्, राष्ट्रनिष्ठा च युवानां कृते अनुकरणीयाः गुणाः सन्ति। युवाशक्तिः राष्ट्रस्य आधारशिला अस्ति। यदि युवा राष्ट्रसेवां परमधर्मत्वेन स्वीकरोति, तर्हि राष्ट्रं सुदृढं, सुरक्षितं च भवति इति।
डॉ. चन्द्रशेखरमिश्रमहोदयेन सर्वेभ्यः अतिथिभ्यः प्रतिभागिभ्यश्च कृतज्ञताऽभिव्यक्ता। कार्यक्रमसमन्वयकः डॉ. राजेशकुमारमिश्रवर्यः (महासचिवः, ग्लोबल संस्कृत फोरम, मध्यप्रदेशः तथा संयोजकः डॉ.आलोकचन्द्रपरिडा (वेदविभागाध्यक्षः) इत्यनयोः कुशलमार्गदर्शनेन व्याख्यानसंगोष्ठी इयं सुव्यवस्थितरूपेण सम्पन्ना।
सहसंयोजकाः डॉ. चन्द्रशेखरमिश्रः, डॉ० नेहामिश्रा, श्रीहरिनारायणशर्मा, श्रीधनीरामत्रिपाठी इत्यादयः विशेषयोगदानं दत्तवन्तः।
अस्यां संगोष्ठ्यां विश्वविद्यालयस्य विभिन्नविभागाध्यक्षाः, प्राध्यापकाः, शोधार्थिनः, छात्राः च सक्रियतया सहभागीभूत्वा भारतस्य नानाराज्येभ्यः शताधिकप्रतिभागिनः अस्याः संगोष्ठ्याः लाभं स्वीकृतवन्तः।
एषा संगोष्ठी युवसु राष्ट्रभक्तेः तथा भारतीयसेनान्यः प्रति गौरवभावस्य जागरणे अत्यन्तं प्रभाविनी अभवत्।
॥ जयतु संस्कृतम्।। ।।जयतु भारतम्॥
॥ इति शम् ॥
