वाल्मीकिरामायणस्य बालकाण्डसमीक्षा-
जानन्ति एव भवन्तो यद् भारतीयसनातनधर्मस्य इतिहासे रामायणं तादृशं ग्रन्थरत्नं वर्तते यस्य अध्ययनं न केवलं हिन्दूधर्मावलम्बिन: कुर्वन्ति अपितु अस्यां भूमौ निवासिन: सर्वे जना: कुर्वन्ति। रामायणग्रन्था: तु बहव: सन्ति परञ्च तेषु सर्वेषु ग्रन्थेषु आदिकाव्यरूपेण महर्षिवाल्मीकिना विरचितं रामायणं सर्वश्रेष्ठं उत्तरोत्तरप्रामाणिकं च मन्यते।भारतीयसंस्कृतेः महाकाव्यपरम्परायां वाल्मीकिना विरचितं रामायणम् अद्वितीयं स्थानं धारयति। एतत् काव्यं न केवलं साहित्यिकदृष्ट्या महत्त्वपूर्णं, अपि तु धर्म- नीति-आदर्शजीवन-सामाजिकमूल्येषु च गम्भीरं मार्गदर्शनं प्रददाति। रामायणस्य सप्तकाण्डेषु प्रथमं काण्डं बालकाण्डः इति नाम्ना प्रसिद्धः वर्तते। अयं काण्डः सम्पूर्णरामकथायाः आधारशिलारूपेण अस्ति। अस्मिन् काण्डे भगवतः श्रीरामस्य अवतारकथा, तस्य बाल्यजीवनम्, गुरुशिष्यपरम्परा, समाजधर्मः, राजधर्मः, तपोबलस्य महत्त्वं च विस्तरेण प्रतिपादितम्। अतःअस्मिन् निबन्धे वयं वाल्मीकिरामायणस्य बालकाण्डस्य विषये चर्चां कुर्मः। ‘बालकाण्डः’ इति नाम तु श्रीरामस्य बाल्यकालं सूचयति, परन्तु अस्य विषयविस्तारः केवलं बाललीलासु न सीमितः वर्तते । अस्मिन् काण्डे ब्रह्माण्डोत्पत्तेः संक्षिप्तवर्णनं, देवासुरसङ्घर्षः, विष्णोः अवतारनिश्चयः, अयोध्यानगरस्य वैभववर्णनं, दशरथराज्ञ: यज्ञकथा, श्रीरामादिचतुर्भ्रातॄणां जन्म, विश्वामित्रस्य आगमनं, रामलक्ष्मणयोः शिक्षादीक्षा, ताडकावधः, यज्ञरक्षणं, मिथिलायात्रा, सीतास्वयंवरं, रामसीतयोः विवाहः इत्यादयः विषयाः प्रतिपादिताः सन्ति। अयं काण्डः श्रीरामकथायाः विस्तृतां भूमिकां निर्माति। बालकाण्डस्य आरम्भे नारदमुनेः वाल्मीकिना सह संवादः भवति। अत्र उक्तमस्ति-
तपःस्वाध्यायनिरतं
तपस्वीवाग्विदां वरम्।
नारदं परिपप्रच्छ
वाल्मीकिर्मुनिपुंगवम्॥
पुनः च द्वितीये पद्ये वाल्मीकि: प्रश्नम् अपृच्छत्—
‘कोन्वस्मिन् साम्प्रतं लोके
गुणवान् कश्च वीर्यवान्।
धर्मज्ञश्च कृतज्ञश्च
सत्यवाक्यो दृढव्रतः।।इति पद्यं सम्पूर्णरामकथायाः बीजस्वरूपं विद्यते। नारदःश्रीरामस्य चरित्रं संक्षेपेण वर्णयति। अयं प्रसङ्गः काव्यस्य संरचनात्मकदृष्ट्या महत्त्वपूर्णः, यतः अत्र कविः कथायाः आरम्भे एव नायकस्य आदर्शगुणान् उद्घोषयति। धर्मज्ञता, सत्यपराक्रमः, करुणा, क्षमा, त्यागः, पितृवाक्यपरिपालनम् इत्यादयः श्रीरामस्य गुणाः अत्र प्रतिपादिताः
सन्ति। बालकाण्डे वाल्मीकिनः तपोवनजीवनं, क्रौञ्चवधदृश्येन उत्पन्नः शोकः, तस्मात् जातः श्लोकः च अत्यन्तं काव्यमर्मस्पर्शी प्रसङ्गः अस्ति।
‘मा निषाद प्रतिष्ठां त्वमगमश्शाश्वतीस्समा: ।
यत्क्रौञ्चमिथुनादेकमवधी: काममोहितम् ।।’ इति श्लोकः संस्कृतकाव्यपरम्परायाः आद्यश्लोको मन्यते। अयं प्रसङ्गः दर्शयति यत् करुणरसः काव्यस्य मूलं भवति। ब्रह्मणा प्रदत्तः काव्यलेखनादेशः वाल्मीकिनं आदिकवित्वेन प्रतिष्ठापयति।
बालकाण्डे अयोध्यानगरस्य समृद्धिवर्णनं, तस्य सामाजिकसांस्कृतिकव्यवस्था च विस्तरेण निरूपितम् अस्ति। अयोध्यानगर्या: धर्मप्रधानता , प्रजाहितैषिणं, समृद्धं नगरं इति चित्र्यते। राजा दशरथः आदर्शराजरूपेण चित्रितः यतो हि सः धर्मपरायणः, प्रजावत्सलः, वीरः, यशस्वी च आसीत्। तथापि पुत्रकामेष्टियज्ञकथायां दशरथस्य मानवीयदुर्बलता, पुत्रेच्छा, तस्य जीवनस्य केन्द्रीयबिन्दुः इति दृश्यते। देवैरभ्यर्थितः विष्णुः रावणवधार्थं मनुष्यरूपेण अवतरति इति कथा बालकाण्डस्य दार्शनिकाधार: वर्तते। श्रीरामःन केवलं ऐतिहासिकपुरुषः , अपि तु धर्मस्य साक्षात् मूर्तिरिति प्रतिपाद्यते। अवतारवादस्य माध्यमेन अधर्मनाशाय धर्मसंस्थापनस्य सिद्धान्तः अत्र प्रस्तुतः वर्तते।
श्रीरामलक्ष्मणभरतशत्रुघ्नानां बाल्यजीवनं, गुरुकुलशिक्षा, वेदविद्या, धनुर्विद्या च वर्ण्यते। अत्र गुरुशिष्यपरम्परायाः महत्त्वं स्पष्टं भवति। श्रीरामस्य शीलं, सौम्यता, भ्रातृप्रेम, आज्ञापालनशीलता च आदर्शरूपेण निरूपिता:। राजर्षे: विश्वामित्रस्य अयोध्यागमनं, रामलक्ष्मणयोः यज्ञरक्षणार्थं विश्वामित्रेण सह गमनं बालकाण्डस्य महत्त्वपूर्णः अंशः वर्तते। अत्र क्षत्रियब्राह्मणयोः सम्बन्धः, तपोबलस्य सामर्थ्यं, राजधर्मस्य कर्तव्यं च प्रतिपादितम्। श्रीरामः अल्पवयस्कः अपि धर्मरक्षणे समर्थः इति दृश्यते। ताडकावधः सामाजिकसन्दर्भेण अपि विचारणीयः यत् अधर्मरूपिण्याः नाशः धर्मस्थापनार्थं आवश्यकः इति संदेशः अत्र निहितः अस्ति। विश्वामित्र: मुनिः श्रीरामाय दिव्यास्त्राणां प्रदानं कृतवान्। अयं प्रसङ्गः श्रीरामस्य दैवीशक्तिं सूचयति, तथापि
श्रीरामः तान्यस्त्राणि स्वेच्छया न प्रयोगम् अकरोत्, केवलं धर्मः रक्षायै एव प्रयुक्तवान्। अयं संयमः श्रीरामस्य आदर्शत्वं अधिकृत्य दर्शयति। मिथिलायां राज्ञो जनकस्य राज्ये सीतास्वयंवरे शिवधनुषभङ्गः एतस्य काण्डस्य काव्यसौन्दर्यपूर्णः भागो वर्तते। अत्र सीता भूमिजा, त्यागशीलता, पतिव्रता, सौम्यता च आदर्शस्त्रीरूपेण दृश्यते। श्रीरामः शिवधनुषः भङ्गः न केवलं वीरताप्रदर्शनम्, अपि तु दैवीकृपायाः परिणामः इति काव्ये प्रतिपादितम् अस्ति। श्रीरामसीतयोः विवाहः भारतीयसंस्कृतेः आदर्शविवाहरूपेण प्रतिष्ठितः अस्ति। अत्र विवाहः केवलं सामाजिकसंस्कारः न, अपि तु धर्मसंयोगः इति प्रतिपादित:। अयोध्यामिथिलयोः सांस्कृतिकसमन्वयः अपि अत्र दृश्यते।
बालकाण्डे सत्यं, धर्मः, त्यागः, गुरुश्रद्धा, पितृभक्ति, भ्रातृप्रेम, स्त्रीसम्मानम् इत्यादीनि मूल्याणि निरन्तरं सर्वत्र प्राप्यन्ते। समाजस्य स्थायीनिर्माणाय नैतिकतायाः अनिवार्यता अत्र कविना सूक्ष्मतया प्रतिपादिता।
बालकाण्डे मुख्यतः शान्तरसः, वीररसः, करुणरसः च प्रधानाः सन्ति। उपमा, रूपक, अनुप्रास, दीर्घवर्णनशैली च वाल्मीकिनः काव्यप्रतिभां दर्शयन्ति। भाषा सरला भूत्वा अपि गम्भीरा, छन्दः अनुष्टुप्प्रधानं विद्यते।
बालकाण्डे कर्मसिद्धान्तः, अवतारवादः, पुरुषार्थचतुष्टयस्य (धर्मार्थकाममोक्ष) समन्वयः दार्शनिकरूपेण प्रतिपादितः। श्रीरामः धर्मस्य मानवरूपः इति भावना सर्वत्र प्रवहति। एवं च वाल्मीकिरामायणस्य बालकाण्डः केवलं श्रीरामस्य बाल्यजीवनविवरणमात्रम् एव न, अपि तु सम्पूर्णरामकथायाःदार्शनिकसांस्कृतिकभूमिकां रचयति। अस्य काण्डस्य अध्ययनात् पाठका: धर्मनिष्ठां, आदर्शजीवनमार्गं, समाजोन्नतिं च अवगच्छन्ति। अतः बालकाण्डः भारतीयमहाकाव्यपरम्परायां अमूल्यरत्नरूपेण सदैव पूज्यः अस्ति। अन्ते च –
तया स राजर्षिसुतोऽभिकामया
समेयिवानुत्तमराजकन्यया।
अतीव रामः शुशुभे मुदान्वितो
विभुः श्रिया विष्णुरिवामरेश्वरः।।श्रीरामो विजयते।।इत्यलम्।।
डॉ विमलेश झा, डीएवी पब्लिक स्कूल,बरारी, भागलपुर
