आधुनिकभारतदेशस्य निर्माणे स्वामीदयानन्दस्य योगदानम्
(जयन्तीविशेषः)
भारतीयेतिहासे उनविंशतिशताब्दी सामाजिकधार्मिकराजनीतिकदृष्ट्या संक्रमणकालः आसीत्। अस्मिन् काले भारतदेशे यत्र पाश्चात्यसत्ता देशस्य राजनैतिकस्वतन्त्रता हृतवती, तत्र एव समाजे अन्धविश्वासाः, रूढिवादः, जातिभेदः, नारी-अवमानना, अशिक्षा च गम्भीररूपेण व्याप्ताः आसन्। अस्मिन् अन्धकारपूर्णे काले यः महापुरुषः दीपशिखेव प्रज्वलितः अभवत्, एषः एव आसीत् स्वामीदयानन्दसरस्वती । एषः केवलं धार्मिकसुधारकः नासीत्, अपि तु आधुनिकभारतस्य बौद्धिक-सांस्कृतिक-राष्ट्रवादीनिर्माणस्य मूलस्तम्भः आसीत्। एतस्य विचाराः, संस्थाः, आन्दोलनानि च आधुनिकभारतस्य स्वरूपनिर्माणे निर्णायकभूमिकां निर्वहन्ति।
स्वामीदयानन्दसरस्वती 1824 तमे वर्षे फरवरीमासस्य द्वादशदिनांके गुजरातप्रदेशस्य टंकारानाम्नि ग्रामे जन्म अलभत। बाल्ये एतस्य मूलशङ्करः आसीत्। बाल्यकालादेव एषः तीव्रबुद्धिः, सत्यजिज्ञासुः, धर्मचिन्तकश्च आसीत्। शिवरात्रौ मूर्तिपूजायाः व्यर्थतां दृष्ट्वा एतस्य मनसि ईश्वरस्वरूपविषये गम्भीरः प्रश्नः उत्पन्नः, येन एषः सत्यस्य अन्वेषणे गृहत्यागं कृत्वा संन्यासमार्गं स्वीकृतवान्। दीर्घकालं यावत् देशभ्रमणं कृत्वा स्वामी विरजानन्दसरस्वतीं गुरुत्वेन स्वीकृत्य वेदानां गहनाध्ययनं कृतवान्। गुरोः आदेशः— “वेदानां प्रचारं कुरु, असत्यस्य खण्डनं कुरु” स्वामीदयानन्दस्य जीवनव्रतं अभवत्। आधुनिकभारतस्य निर्माणं केवलं राजनैतिकस्वातन्त्रतायां न सीमितम्, अपि तु वैचारिकस्वातन्त्रतायाम् अपि निहितम् आसीत्।स्वामीदयानन्दः भारतीयानां आत्मविश्वासं पुनः जागरूकं कृतवान्।
यदा पाश्चात्यविद्वांसः भारतदेशम् अन्धविश्वासप्रधानम् , अवैज्ञानिकं च कथयन्ति स्म, तदा स्वामीदयानन्दः वेदानां वैज्ञानिकं, तार्किकं, सार्वकालिकं च स्वरूपं प्रतिपादिवान्। एतस्य उद्घोषः— “वेदाः सर्वज्ञानमयाः सन्ति”— भारतीयानां मनसि आत्मगौरवबोधं उत्पादितवान्। एतत् वैचारिकजागरणमेव आधुनिकभारतस्य बौद्धिकाधारः अभवत्। स्वामीदयानन्देन प्रतिपादितः धर्मः न आडम्बरप्रधानः आसीत्, न च पलायनवादी। एषः कर्मप्रधानः, समाजोपयोगी, राष्ट्रहितैषी च आसीत्।
एषः उद्घोषितवान् मूर्तिपूजा वेदविरुद्धा अस्ति। अन्धविश्वासः मानवबुद्धेः शत्रुः अस्ति। सत्यं, विद्या, परोपकारः एव धर्मस्य मूलं विद्यते। एवं धर्मस्य शुद्धस्वरूपप्रतिपादनं कृत्वा एषः आधुनिकभारतस्य नैतिकाधारं सुदृढं कृतवान्।स्वामीदयानन्द:1875 तमे वर्षे मुम्बईनगरे आर्यसमाजस्य स्थापनां कृतवान्। आर्यसमाजः केवलं धार्मिकसंस्था नासीत्, अपि तु सामाजिक-शैक्षिक-राष्ट्रवादी आन्दोलनम् अपि आसीत्।आर्यसमाजस्य दशसिद्धान्ताःसत्य, विद्या, धर्मप्रचारः,
सर्वेषां समानता,नारी-पुरुषयोः समानाधिकारः,समाजकल्याणम् एते सर्वे आधुनिकलोकतान्त्रिकमूल्यैः सह संगच्छन्ति। आर्यसमाजेन आधुनिकभारतस्य सामाजिकसंरचना पुनर्निर्मिता ।स्वामीदयानन्दः जातिव्यवस्थायाः जन्माधारितरूपस्य विरोधी आसीत्। एतस्य मतानुसारं—“गुणकर्मविभागशः वर्णव्यवस्था”
जन्मना न, कर्मणा एव मनुष्यः ब्राह्मणः वा शूद्रः भवति। एषः विचारः आधुनिकभारतस्य सामाजिकन्यायसंकल्पनायाः मूलाधारः अभवत्। अस्पृश्यतानिवारणे, सामाजिकसमतायां, मानवाधिकारचिन्तने च एतस्य योगदानं अत्यन्तं महत्त्वपूर्णम् अस्ति।
यत्र स्त्रियः अविद्यायाः, आवरणप्रथायाः, बालविवाहस्य, विधवायाः दुःखस्य च बन्धनेषु बद्धाः आसन्, तत्र स्वामीदयानन्दः स्त्रीस्वातन्त्रताया: निर्भीकः प्रवक्ता आसीत्।
एषः स्त्रीशिक्षायाः प्रबलसमर्थकः आसीत्।
एषः विधवाविवाहं समर्थितवान्। अयं “नारी पुरुषस्य समाना” इति उद्घोषितवान् ।
एते विचाराः आधुनिकभारतस्य नारीसशक्तीकरणस्य प्रारम्भबिन्दवः सन्ति।
स्वामीदयानन्दः शिक्षां राष्ट्रनिर्माणस्य प्रधानं साधनं मन्यते स्म। तस्य प्रेरणया एव गुरुकुलप्रणाली आधुनिकरूपे पुनर्जीविता अभवत्। सम्प्रति अपि डीएवीशिक्षणसंस्था:
वैदिकसंस्काराः,आधुनिकविज्ञानम्,
राष्ट्रभक्ति: एतेषां समन्वयेन आधुनिकभारतीयशिक्षाप्रणालीं विकसितवन्तः।एषा शिक्षा न केवलं जीविकोपार्जनाय, अपि तु चरित्रनिर्माणाय अपि उपयुज्यते स्म।स्वामीदयानन्दः आधुनिकभारतस्य प्रथमः चिन्तकः यः स्वराज्यभावनां वैचारिकरूपेण प्रतिपादितवान्। सः परतन्त्रतां अधर्मं मन्यते स्म।एतस्य विचारान् लोकमान्यतिलकं,लाला लाजपतरायमहोदयं,स्वामी श्रद्धानन्दं,भगतसिंहं,
इत्यादीन् राष्ट्रवादिनः प्रभावितवन्तः।
अतः स्वामीदयानन्दः आधुनिकभारतीयराष्ट्रवादस्य बौद्धिकपितामहः इति कथ्यते।
स्वामीदयानन्दकृतः सत्यार्थप्रकाशः आधुनिकभारतस्य सर्वाधिकः प्रभावशाली ग्रन्थेषु एकः अस्ति। अस्मिन् ग्रन्थे धर्मस्य वैज्ञानिकव्याख्या,सामाजिकदोषाणां निर्भीकखण्डनम्,परतन्त्रतायाः सूक्ष्मनिन्दा
एते सर्वे विषयाः आधुनिकचिन्तनस्य आधारं निर्मान्ति। पाश्चात्यसंस्कृतेः अन्धानुकरणकाले स्वामीदयानन्दः भारतीयसंस्कृतेः गौरवं पुनः स्थापितवान्। एषः संस्कृतभाषायाः, वेदाध्ययनस्य, भारतीयपरम्परायाः पुनरुत्थानं कृत्वा आधुनिकभारतस्य सांस्कृतिकस्वाभिमानं सुदृढं कृतवान्।
1883 तमे वर्षे अक्टूबरमासस्य त्रिंशत् दिनांके स्वामीदयानन्दस्य विषसेवनकारणात् देहावसानम् अभवत्। किन्तु एतस्य विचाराः, दर्शनं, प्रेरणाः अद्यापि आधुनिकभारतस्य जनमानसे प्रवहन्ति। स्वामीदयानन्दसरस्वती आधुनिकभारतस्य निर्माणे अदृश्यशिल्पी इव आसीत्।एतस्य योगदानं वैचारिकजागरणे,सामाजिकसुधारे,शिक्षाविकासे,नारी-उत्थाने,राष्ट्रवादे च अद्वितीयम्, अमूल्यम्, अमरं च अस्ति।
यदि आधुनिकभारतदेश: वैदिकमूल्यैः सह वैज्ञानिकदृष्ट्या, सामाजिकन्यायेन, राष्ट्रभक्त्या च संयुक्तं दृश्यते, तत्र स्वामीदयानन्दसरस्वत्याः योगदानम् अवश्यम् एव स्मरणीयं विद्यते। अन्ते च वयं वक्तुं शक्नुमः यत् “स्वामीदयानन्दः न केवलं युगपुरुषः, अपि तु युगनिर्माता आसीत्।” इत्यलम्।
डॉ विमलेश झा, डीएवी पब्लिक स्कूल बरारी भागलपुर
