अद्यतनं कलहान्वितं विश्वम्-नारदोपाध्यायः
द्वापरयुगस्य अन्तिमकाले भगवतः श्रीकृष्णस्य स्वधाम प्रति प्रयाणम् सञ्जातम्। तत्प्रयाणस्य समनन्तरं हि कलिकालस्य आरम्भः अभवत्। पुराणवर्णितस्य कलिकालस्य सम्पूर्णं लक्षणम् इदानीं प्रत्यक्षं दृश्यते। कलिशब्दस्य अर्थः कलह- युद्ध- विग्रहादिकः। कस्य केन सह कलहः इत्युक्ते शासक- शासितयोर्मध्ये, धनिक- श्रमिकयोर्मध्ये, प्राचीन- तरुणयोर्मध्ये, जाति-जात्योर्मध्ये, वर्ण- वर्णयोर्मध्ये, स्त्री-पुरुषयोर्मध्ये, स्वामि-स्त्रियोर्मध्ये, पुत्र- कन्यायोर्मध्ये, भ्रातृ-भ्रात्रोर्मध्ये, राजनेतृ- राजनेत्रोर्मध्ये, विद्वत्-विदुषोर्मध्ये, पण्डित- पण्डितयोर्मध्ये, मठाधीश- मठाधीशयोर्मध्ये, शङ्कराचार्य- शङ्कराचार्ययोर्मध्ये, गुरु-शिष्ययोर्मध्ये इत्यादिकलहः सर्वत्र व्यापकः दरीदृश्यते सम्प्रति। एवमेव शिक्षा-धर्म-समाज-सम्प्रदायादिषु सर्वत्र पारस्परिकः केवलः कलहः एव स्यात्। पुनश्च, संस्कृति- दुष्कृत्योः, प्रवृत्ति-निवृतिमार्गयोर्मध्येऽपि कलहः सुदृढः एव। एतत्तु सत्यमेव यत् चिदात्मनः पवित्रवेदिकायाः उपरि देहात्मवादस्य अथवा भोगवादस्य प्रभुत्वकारणतः कलहोऽयं सञ्जातोऽस्ति, एवं तस्य प्रतिष्ठापनं हि कलेरत्र श्रेष्ठतमः प्रभावः। धर्मे अनास्था, एवम् ईश्वरं प्रति अविश्वासः इत्येव कलेः प्रधानं वैशिष्ट्यम्। ईश्वरविषये प्रकाश्यभावेन अस्वीकारं कर्तुं सम्पूर्णे विश्वे हि मानवजातिः तत्परा। वस्तुतः धर्मः हि विश्वं धारयति, सदाचारः हि धर्मः, नैतिकता हि धर्मः, धर्मस्य सारः सत्यम्, मुक्तेः सारः च शान्तिः। अहिंसा, सत्यं, मानवतावादः, विश्वभातृत्वम् इत्यादिकः धर्मस्य महान् गुणसमूहः क्रमेण इतः विलयतां गच्छन्नस्ति, एवम् अधर्मस्य प्रकोपः शनैः मानवजातेः मध्ये प्रविश्य धर्मं ध्वस्तीकुर्वन् अवलोक्यते, यच्च धनेन क्रेतुं न शक्यते, तादृशं सुखशान्त्यादिकम् इतः विलीनतां गच्छदस्ति। प्रयुक्तिविज्ञानस्य उन्नतिः मानवस्य असीमकामनां पूरयितुम् असमर्था इति कारणतः, प्राकृतिक- सीमितसम्पदः उपरि एकस्य महतः दमनस्य प्रकोपतः च मानवः अतीष्ठः सञ्जातोऽस्ति, तथा कलिग्रासे निमज्जितः दृश्यते। आध्यात्मिकस्य, वा आत्मधर्मस्य, आन्तरिकसम्बन्धस्य वा शिथिलताकारणतः मानवानां मध्ये कलहः जायमानोऽस्ति। सृष्टेरनन्तरं हि ब्रह्मदेवेन यत् यमदण्डभयं, राजदण्डभयं, पारम्परिकभयं, पारलौकिकभयं चेति भयचतुष्टयं सृष्टमासीत्, तत्प्रति मनुष्यस्य भयम् अपगतम्, अर्थाद् भयसम्बन्धे मनुष्यः उदासीनः जातः, तस्मात् वीतश्रद्धः, नास्तिकः वा भूत्वा सः शान्तिसम्प्रीत्यादिस्थाने कलहेन, सन्त्रासवादेन च समावृतः अभवत्। न केवलम् आध्यात्मिकदिशि हि तस्य अधोगतिः, अपितु आधिदैविकम्, आधिभौतिकं चेति दिग्द्वये अपि मानवः महता क्लेशेन आक्रान्तोऽस्ति। धर्मरज्जुः नितरां शैथिल्यं गतास्ति, तस्मात् कलहमरणमारणादिसम्बद्धः प्रकोपः विश्वे प्रतिक्षणं वर्धमानोऽस्ति। अस्थिरपरिवेशस्य स्थिरतार्थं यदा हिरण्यकशिपुसदृशानां जनानां वृद्धिर्जायते, तदा प्रह्लादसदृशानां जन्म भवतीति भाति, शुभम् ।
लेखकः- नारदोपाध्यायः सेवानिवृत्तः विज्ञानशिक्षकः असमप्रान्तः
