“राष्ट्रपतिः उपराष्ट्रपतिः च स्वामी-दयानन्द-सरस्वती-महोदयं तस्य जयन्त्यां श्रद्धामञ्जलिं समर्पितवन्तौ
“राष्ट्रपतिः द्रौपदी मुर्मु, उपराष्ट्रपतिः सी.पी. राधाकृष्णनः च स्वामी-दयानन्द-सरस्वती-महोदयं तस्य जयन्त्यां श्रद्धामञ्जलिं समर्पितवन्तौ”सामाजिक-माध्यमेन (Social Media) राष्ट्रपतिः द्रौपदी मुर्मु अकथयत् यत् स्वामी दयानन्द सरस्वती सम्पूर्णसमाजाय देशस्य शिक्षाप्रणाल्यै च अमूल्यं मार्गदर्शनं दत्तवान्। राष्ट्रपतिः उक्तवती यत् तेन स्थापिताभ्यः आध्यात्मिक-शैक्षणिक-संस्थाभ्यः देशः सदैव लाभान्वितः अभवत्, भविष्यति च।उपराष्ट्रपतिः सी.पी. राधाकृष्णनः अवदत् यत् महर्षिः दयानन्द सरस्वती स्वकीयं सम्पूर्णं जीवनं अन्धविश्वासस्य, आडम्बरस्य, सामाजिक-कुरीतीनां च विरुद्धं सङ्घर्षे समर्पितवान्। उपराष्ट्रपतिः कथितवान् यत् शिक्षायाः प्रसारे, महिला-सशक्तीकरणे, भारतीयसंस्कृतेः संरक्षणे च तस्य प्रयत्नाः देशाय एकां नवीनां वैचारिकीं दिशं आत्मसम्मानस्य भावं च दत्तवन्तः।श्री राधाकृष्णनः अदीधरत् यत् वर्गहीन-जातिविहीन-समतावादि-समाजस्य स्थापनायां तथा उच्च-नैतिक-मूल्यानां प्रसारे तस्य योगदानम् अद्यापि सर्वेषां कृते प्रेरणायाः स्रोतः अस्ति।
“राष्ट्रपतिः उपराष्ट्रपतिः च स्वामी-दयानन्द-सरस्वती-महोदयं तस्य जयन्त्यां श्रद्धामञ्जलिं समर्पितवन्तौ
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
