यावत् विपक्षेण आनीते अविश्वास-प्रस्तावे निर्णयः न भवति, तावत् सदनस्य कार्यवाहीषु भागं न ग्रहीष्यामि- लोकसभाध्यक्षः
लोकसभाध्यक्षः ओम-बिरला महोदयः नैतिक-आधारेण एतं निर्णयं स्वीकृतवान् यत् यावत् विपक्षेण आनीते अविश्वास-प्रस्तावे निर्णयः न भवति, तावत् सः सदनस्य कार्यवाहीषु भागं न ग्रहीष्यति। परह्यः विपक्षेण श्री-बिरला महोदयस्य विरुद्धम् अविश्वास-प्रस्तावस्य सूचना (Notice) प्रदत्ता, या लोकसभायाः महासचिवस्य हस्ते समर्पिता अस्ति। लोकसभा-सचिवालयस्य सूत्रानुसारम्, अस्याः सूचनायाः नियमानुगुणं अन्वेषणं भविष्यति, तदनन्तरं च अग्रिमा कार्यप्रक्रिया करिष्यते। महासचिवाय समर्पिते अस्मिन् सूचनापत्रे काङ्ग्रेस-डीएमके-समाजवादी-आरजेडी-वामपन्थी-दलैः सहितानां विपक्षी-दलानां अष्टादशाधिक-शतं (११८) सासंदैः हस्ताक्षराणि कृतानि, किन्तु तृणमूल-काङ्ग्रेस-दलस्य सासंदैः अस्मिन् हस्ताक्षराणि न कृतानि।
यावत् विपक्षेण आनीते अविश्वास-प्रस्तावे निर्णयः न भवति, तावत् सदनस्य कार्यवाहीषु भागं न ग्रहीष्यामि- लोकसभाध्यक्षः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
