सप्तदश-दिनाङ्कतः एकोनविंशति-दिनाङ्कपर्यन्तं मुम्बई-नगरे प्रथमस्य ‘मुम्बई-जलवायु-सप्ताहस्य’ आयोजनम्
मुम्बई-नगरे प्रथमस्य ‘मुम्बई-जलवायु-सप्ताहस्य’ आयोजनं फरवरी-मासस्य सप्तदश-दिनाङ्कतः एकोनविंशति-दिनाङ्कपर्यन्तं क्रियते। अस्मिन् कार्यक्रमे बिल-गेट्सः, हिलेरी-क्लिण्टनः, क्रिकेट-जगतः दिग्गजः सचिन-तेण्डुलकरः च इत्यादयः बहवः गणमान्याः महानुभावाः सम्मिलिताः भविष्यन्ति इति संभावना अस्ति। ‘मुम्बई-जलवायु-सप्ताहः’ वैश्विक-दक्षिणस्य (Global South) जलवायु-नेतृत्वाय एकं मञ्चमिव कार्यं करिष्यति। अस्मिन् राष्ट्राध्यक्षाः, व्यापार-नेतृवृन्दः, जलवायु-नवोन्मेषकाः, परोपकारिणः, युवानः, सामुदायिक-प्रतिनिधयः च भागं ग्रहीष्यन्ति। अस्य मुख्यमुद्देश्यं जलवायु-संवादं प्रत्यक्ष-कार्यवायां परिवर्तितुं अस्ति। मुख्यमन्त्री देवेन्द्र-फडणवीसः उक्तवान् यत् एतद् आयोजनं नगरस्तरात् वैश्विकस्तरपर्यन्तं जलवायु-कार्यान् प्रति भारतस्य प्रतिबद्धतां दर्शयति। एतद् एकस्य दृढस्य शाश्वतस्य च भविष्यस्य निर्माणाय वैश्विक-सहयोगिभिः सह मिलित्वा कार्यं कर्तुं महाराष्ट्रस्य सज्जतां अपि प्रकाशयति। त्रिसप्तदिनात्मकः एषः कार्यक्रमः ‘हब-एण्ड-स्पोक’ (Hub-and-Spoke) प्रारूपेण भविष्यति, यत्र जियो-वर्ल्ड-कन्वेन्शन-केन्द्रे नेतृत्व-चर्चाः, नवाचार-चुनौत्यः, युवा-पहलः, जलवायु-समाधान-प्रदर्शनी च आयोजयिष्यन्ते।
सप्तदश-दिनाङ्कतः एकोनविंशति-दिनाङ्कपर्यन्तं मुम्बई-नगरे प्रथमस्य ‘मुम्बई-जलवायु-सप्ताहस्य’ आयोजनम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
