*’विद्यावारिधि’ (Ph.D.) पदवीप्रदानम् l*
विद्वान् मञ्जेश एम् महोदयाय ‘विद्यावारिधि’ (Ph.D.) पदवीप्रदानम् l
कर्नाटकराज्ये बेङ्गलूरुमहानगरे वर्तमान-माचोहळ्ळी-ग्रामे वर्तमानयोः श्रीमतीलीलावती तथा श्री एस्. मैलारय्यदम्पत्योः ज्येष्ठपुत्राय मञ्जेशवर्याय कर्नाटक-संस्कृत-विश्वविद्यालयेन प्रतिष्ठापूर्णा विद्यावारिधि (Ph.D.) इति पदवी प्रादायि।
विशेषपरिचयः
डॉ. मञ्जेशमहोदयः द्वादश वर्षाणि यावत् साम्प्रदायिक-गुरुकुल-शिक्षणं प्राप्य वेद, संस्कृत-वेदान्तशास्त्रयोः प्रगाढं पाण्डित्यं प्राप्तवान् । सम्प्रति एषः बेङ्गलूरु-विश्वविद्यालयस्य संस्कृतविभागे पूर्णकालिक-व्याख्याता रूपेण सेवां निर्वहति।
शोधप्रबन्धस्य विवरणम्:
कर्नाटक-संस्कृत-विश्वविद्यालयस्य वेदान्तविभागस्य सह-प्राध्यापकानां डॉ. शरच्चन्द्रस्वामिवर्याणां मार्गदर्शने “ब्रह्मसूत्रशाङ्करभाष्य-भाष्यरत्नप्रभायां पूर्वमीमांसान्यायानां विमर्शात्मकमध्ययनम्” (“A Critical Study of the Nyāyas of Pūrva Mīmāṃsā, pertaining to the Bhāṣya-Ratnā-Prabhā gloss of the Śaṅkara Brahma Sūtra Bhāṣyam”) इति विषये समर्पित-शोधप्रबन्धाय अयम् उपाधि विशेषः लब्धः।
इमां शैक्षणिक-साधनाम् उररीकृत्य
डॉ. मञ्जेश एम् महोदयाय तस्य पितरौ, बान्धवाः, गुरुचरणाः, मित्राणि तथा बेङ्गलूरुनगरवर्ति माचोहळ्ळी-ग्रामस्थाः जनाः हार्दिकम् अभिनन्दनं च व्याहृतवन्तः।
