बेटी बचाओ बेटी पढ़ाओ योजना इदानीं ‘राष्ट्रीय-आन्दोलनम्’ अभवत्: अन्नपूर्णा देवी
सर्वकारेण घोषितं यत् ‘बेटी बचाओ बेटी पढ़ाओ’ योजना एका नीतिगत-पहलतः राष्ट्रियान्दोलने परिवर्तिता अस्ति। अस्यां योजनायां सर्वकारीयाभिकरणानि, समुदायाः, सञ्चारमाध्यमाः, नागरिकसमाजः तथा सामान्यजनाः इत्यादयः विविधाः हितधारकाः सम्मिलिताः सन्ति।लोकसभायां लिखितोत्तरे महिला-बालविकासमन्त्री अन्नपूर्णा देवी अवदत् यत् राष्ट्रियस्तरे ‘जन्मसमये लिङ्गानुपातः’ (SRB) २०१४-१५ वर्षे ९१८ तः वर्धित्वा २०२४-२५ वर्षे ९२९ अभवत्। माध्यमिकस्तरे विद्यालयेषु बालिकानां ‘सकल-नामाङ्कन-अनुपातः’ (GER) अपि २०१४-१५ वर्षे ७५.५१% तः वर्धित्वा २०२४-२५ वर्षे ८०.२% जातः। सा सूचितवती यत् स्वास्थ्य-परिवारकल्याण-मन्त्रालयस्य २०२०-२१ ‘HMIS’ अङ्कानाम् आधारेण जनपदेभ्यः लिङ्गानुपातस्य स्थित्यनुसारं धनं प्रदीयते। श्रीमती अन्नपूर्णा देवी उक्तवती यत् बालिकानां लिङ्गानुपातस्य तथा जीवनचक्रे तासां सक्षमीकरणस्य विषयाणां समाधानार्थं २२ जनवरी २०१५ तमे वर्षे एषा योजना प्रारब्धा। अस्याः उद्देश्यं न केवलं लिङ्गभेदस्य निवारणं, अपितु बालिकाभ्यः महत्त्वं प्रदातुं सांस्कृतिक-परिवर्तनस्य प्रोत्साहनम् अपि अस्ति।
बेटी बचाओ बेटी पढ़ाओ योजना इदानीं ‘राष्ट्रीय-आन्दोलनम्’ अभवत्: अन्नपूर्णा देवी
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
